SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ३१४ ॥ 9009999363 106980580001 www.kobatirth.org स्या वचश्चातुरीरंजितो राजा तत्पाणिग्रहणवांछकः सन् तस्याः पितुः समीपे स्वमंत्रिणं प्रेषयित्वा तां प्रार्थितवान् पित्रापि सा दत्ता, सुमुहूर्त्ते राज्ञा परिणीता प्रकामं प्रेमपात्रं बभूव, सर्वांतः पुरीषु मुख्या जाता, विविधानि दूष्यानि रत्नाभरणानि चाससाद. एकदा तया मदनाभिधा स्वदासी रहस्येवं बभा षे भद्रे ! यदा मद्रतिश्रांतो भृपतिः स्वपिति तदा त्वयाहमेवं पृष्टव्या स्वामिनि ! कथां कथयेति तयोक्तमवश्यमहं तदानीं प्रश्नयिष्ये. अथ रात्रिसमये राजा तद्गृहे समायातः, तां भुक्त्वा रतिश्रांतो राजा यावत्स्वपिति तावता दास्येयं पृष्टा स्वामिनि ! कथां कथय ? राज्ञी प्राह यावद्राजा निद्रां प्राप्नोति तावन्मौनं कुरु ? पश्चात्वदग्रे यथेच्छं कथां कथयिष्यामि, राजापि तां कथां श्रोतुकामः कपटनिद्रया सुष्वाप, पुनर्दास्या सांप्रतं कथां कथयेति पृष्टा चित्रकरपुत्री कथां कथयितुमारेभे, मधुपुरे वरुणः श्रेष्टी एककरप्रमाणदेवकुलमकारयत् चतुःकरप्रमाणो देवस्तत्र स्थापितः, स देवस्तस्मै चिंतितार्थदायको बभूव अथ दासी प्राहैकहस्ते देवकुले चतुःकरप्रमाणो देवः कथं मातः ? इति तया पृष्ठे सा राज्ञी प्राहेमं रहस्यं तव कल्यरात्रौ कथयिष्यामि, अद्य तु निद्रा समायातीति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ ३९४ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy