________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥३१३॥
000000000000000000004
नसंकीर्णेऽपि राजमार्गे त्वरितमश्वमवाहयत्, लोकास्तु तद्भयादितस्ततो नष्टाः, सापि क्वचिन्नंष्ट्वा स्थिता, पश्चात्तत्रायाता, भक्तपानहस्तां तामागतां वीक्ष्य स वृद्धचित्रकरः पुरीषोत्सर्गार्थ बहिर्जगाम, एकत्राहारपात्रमाच्छादयित्वा सा क्वचिद्भित्तिदेशे वर्णिकैर्मयरपिच्छमालिलेख. ___ अथ तत्र राजा संप्राप्तः, भित्तिचित्राणि पश्यन् कुमार्यालेखिते केकिपिच्छे साक्षारिपच्छं म-4 न्यमानः करं चिक्षेप. भित्तास्फालनतो नखभंगेन विलक्षीभूतं तं नृपं सामान्यपुरुषमेव जानंती सा चित्रकरपुत्र्येवमाह चतुर्थः पादस्त्वमद्य मया लब्धः, नृपःप्राह पूर्वं त्वया के त्रयः पादा लब्धाः? सांप्रतमहं कथं त्वया चतुर्थः पादो लब्धः? सा प्राह श्रूयतां? योऽद्य मया राजमागें त्वरीतमश्वं वाहयन् बालस्त्रीप्रमुखजनानां त्रासयन् दृष्टः स मूर्खत्वे प्रथमः पादो लब्धः, द्वितीयः पद इहत्यो राजा यः कुटुंबलोकसहितैश्चित्रकरैः समं भित्तिभागं जरातुरस्य मम पितुर्ददौ. तृतीयः पादो मम पिता, यो नि-10 त्यं भक्ते समायाते बहिर्याति. चतुर्थस्त्वं योऽस्मिन् भित्तिदेशे मल्लिखिते मयूरपिच्छे करं चिक्षेप, परमेवं त्वया न विमृष्टं यदत्र सुधाघृष्टे भित्तिदेशे निराधारा मयूरपिच्छस्थितिः कुतो भवति? एवं त
sứcác con sẽ tangT9
॥३१३॥
For Private And Personal Use Only