________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
उत्तरा॥३११॥
30000000000000000000६
ना प्रकारेण कुर्वति, भोगेभ्यो विशेषेण निवर्तते, कीदृशाः संबुद्धाः? प्रविचक्षणाः,प्रकर्षणाभ्यासातिशयेन विचक्षणाः क्रियासहितज्ञानयुक्ता इत्यर्थः. क इव भोगेभ्यो निवर्तते? यथा नमिराजर्षिोंगेभ्यो निवार्तित इत्यहं ब्रवीमि, सुधर्मास्वामी जंबूस्वामिनंप्रति वदति. ॥६२॥ इति तृतीयप्रत्येकबुद्धनमिराजर्षिसंबंधः.
अथ यदा नमिः प्रतिबुद्धस्तदानीमेव नगातिर्नृपः प्रतिबुद्धः. अथ नगातिनृपचरित्रं कथ्यते-अस्मिन् भरते पुंड्रवर्धनं नाम नगरमस्ति, तत्र सिंहरथो नाम राजा वर्तते. गंधारदेशाधिपतेस्तस्य राज्ञोऽन्यदा द्वावश्वौ प्राभृतौ समायातो, तयोः परीक्षार्थमेकस्मिंस्तुरगे राजाधिरूढः, एकस्मिंश्च तुरगेऽपरो नर आरूढः, तेन सममपरैश्चाश्ववारशतैः परिवृतो बाह्यारामिकायां गतः, परीक्षां कुर्वता राज्ञाश्वःप्रधानगत्या विमुक्तः, सोऽपि बलवता वेगेन निर्ययो, यथा यथा राजा वल्गामाकर्षति तथा तथा स वायु-| वेगवान् जातः, पुरोपवनान्यतिक्रम्य सोऽश्वो राजानं लात्वा महाटव्यां प्रविष्टः, श्रांतेन भूपेन तदास्य वल्गा मुक्ता, तदा राजैनं विपरीताश्वं मन्यतेस्म, तस्मादुत्तीर्य राजा भूमिचरो बभूव, तं च पा
-@0000000000000
॥३११॥
For Private And Personal Use Only