________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SDE
उत्तरा
सटोकं
॥३०९॥
O
S
000000000000000000006
॥ मूलम् ॥ इहंसि उत्तमो भंते । पिच्चा होइसि उत्तमो ॥ लोगुत्तमुत्तमं ठाणं । सिद्धिं गच्छसि नीरओ ॥ ५८ ॥ व्याख्या-हे मुने! हे भगवन् ! हे पूज्य ! त्वमिहास्मिन् जन्मन्युत्तमोऽसि, सर्वपुरुषेभ्यः प्रधानोऽसि, उत्तमगुणान्वितत्वात्, 'पिच्चा' इति प्रेत्य परलोकेऽप्युत्तमो भविष्यसि, लोकस्योत्तमोत्तममतिशयप्रधानं स्थानमेतादृशं सिद्धिं मुक्तिस्थानं नीरजा निःकर्मा गच्छसि, त्वं गमिष्यसि, अत्र लोगुत्तमुत्तममित्यत्र मकारः प्राकृतत्वात्, लीकोत्तमोत्तम इति वक्तव्यम्. ॥ ५८॥
॥ मूलम् ॥-एवमभित्थुगंतो। रायरिसिं उत्तमाए सद्धाए ॥ पायाहिणं करंतो। पुणो पुणो वंदए सक्को। ५९ ॥ व्याख्या-शक इंद्रो नमिराजार्थं पुनः पुनर्वंदते, भूयो भूयो नमस्कुरुते, किं कुर्वन्? प्रदक्षिणां कुर्वन्, पुनः किं कुर्वन् ? उत्तमया प्रधानया श्रद्धया रुच्या भक्त्याऽभिष्टुवन् स्तुतिं कुर्वन्नित्यर्थः.
॥ मूलम् ॥-तो वंदिऊण पाए । चकंकुसलक्खणे मुणिवरस्त ॥ आगासेणुप्पइओ। ललियचवलकुंडलकिरीडी ॥ ६० ॥ व्याख्या-'तो' इति ततः शक आकाशमनुत्पतित उड्डितः, किं कृत्वा? | मुनिवरस्य राजर्षेः पादौ वंदित्वा, कीदृशौ मुनेः पादौ? चक्रांकुशलक्षणो, राज्ञो हि पादयोश्चक्रांकुश
@@@@
@@@@@@
॥३०९॥
@@
For Private And Personal Use Only