________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥३०८॥
060900000000000000
यतो मंदिरं दह्यते, अंतःपुरं दह्यत इत्याद्युक्तं, तथापि मयि विद्यमाने मम पुरं ममांतःपुरं च दह्यत इति तब मनस्यहंकृतिायात, तस्मान्निर्मानस्त्वं वर्तसे. अहो ईत्याश्चयें, त्वया मायापि निर्जिता, यतस्त्वं नगरस्य रक्षाकारणेषु प्राकाराहालकादिषु, निष्कासनयोग्येष्वामोसलोमहारग्रन्थिभेदकतस्करादीनां वशीकरणहननादि च मनो नोऽकरोः. अहो इत्याश्चयें, लोभो वशीकृतः, हिरण्यसुवर्णादिकं वर्धयित्वा पश्चाद्गंतव्यमिति श्रुत्वापि मांप्रतीच्छा तु आकाशसमाऽनंतका इत्युक्तवान, तस्माच्चत्वारोऽपि कषायास्त्वया जिता इत्यर्थः. ॥ ५६ ॥
॥ मूलम् ॥-अहो ते अजवं साहु । अहो ते साहु मद्दवं ॥ अहो ते उत्तमा खति । अहो ते | मुत्ति उत्तमा ॥ ५७॥ व्याख्या-अहो इति विस्मये, आश्चर्यकारि वा साधु समीचीनं ते तवाजवं, ऋजोः सरलस्य भाव आर्जवं विनयवत्त्वं वर्तते. अहो आश्चर्यकारि तव साधु सुंदरं मार्दवं, मृदो वो मार्दवं कोमलत्वं सदयत्वं वर्तते. अहो साध्वी तव क्षांतिः क्षमा वर्तते, अहो साध्वी तव मुक्तिर्वर्तते | निलोभता वर्तते. ॥ ५७ ॥ अथ पुनर्वर्धमानगुणद्वारेणाभिष्टौति
000000000000000000000
॥३०८॥
For Private And Personal Use Only