________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrh.org
Acharya SM Kalassagersuri Gyanmandie
उत्तरा
3000
Home-3
सटीकं
॥३०७॥
-
@G
|॥ ५४ ॥ व्याख्या-जीवः क्रोधेनाधो व्रजति, नरके याति, मानेनाधमा गतिर्भवति, गर्दभोष्ट्रमहिष
शकरादिगतिः स्यात् .मायया सुगतेः प्रतिघातः, माया सुगतरर्गला भवति, लोभाद् द्विधापि भयं स्या| त्, ऐहिकं पारलौकिकं च भयं दुःखं स्यात्. कामप्रार्थने ह्यवश्यं भाविनः क्रोधादयस्ते च क्रोधादय ईदृशाः, ततः कथं तत्प्रार्थनातो दुर्गतिर्न स्यात् ? ॥ ५४॥ एवं वचनयुक्तिं श्रुत्वेंद्रो नमिराजर्षिप्रति क्षोभयितुमशक्तः किमकरोदित्याह
॥ मूलम् ॥-अवउज्झिऊण माहण-रूवं विउविऊण इंदतं ॥ वंदइ अभित्थुगंतो। इमाहिं महराहिं वग्गृहि ॥ ५५ ॥ व्याख्या इंद्रो नमिराजर्षिप्रति वंदते, किं कुर्वन्? इमाभिः प्रत्यक्षं वक्ष्यमाणाभिर्मधुराभिर्वाग्भिः स्तुवन् , किं कृत्वा? ब्राह्मणरूपमपोह्य त्यक्त्वा, इंद्रत्वं विकुळ विधाय. ५५
मूलम् ॥-अहो ते निजिओ कोहो । अहो माणो पराजिओ ॥ अहो ते निजिया माया। अहो लोहो वसीकओ ॥ ५६ ॥ व्याख्या-अहो इत्याश्चयें, त्वया क्रोधो निर्जितः, यतो मया त्वांप्रत्युक्तमनम्रपार्थिवा वशीकर्तव्यास्तदापि त्वं न क्रुद्ध इत्यर्यः. अहो इत्याश्चयें, त्वया मानोऽपि.दूरीकृतः,
e
50866
@@@8800
१॥३०७॥
For Private And Personal Use Only