________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३०६ ॥
३०००
960960999999999
www.kobatirth.org
मा जंति दुग्गइं ॥ ५३ ॥ व्याख्या - एते कामा विषया विविधबाधाविधायित्वाच्छल्यं शल्यसदृशा देहमध्यप्रविष्टत्रुटितभल्लितुल्याः, प्रतिक्षणं पीडोत्पादकाः पुनः कामा विषं विषसदृशाः, यथा विषं तालपुटादि भक्षितं सन्मरणोत्पादकं, तथा कामा अपि धर्मजीवितविनाशका मुखे मधुरत्वमुत्पाद्य पश्वान्मरणमुत्पादयंति दारुणत्वात् पुनः कामा आशीविषोपमाः, आशी दाढाविषं येषां ते आशीविषाः सर्पास्तेषामुपमा येषां ते आशीविषोपमाः सर्पसदृशाः, यथा सर्पदष्टा जीवा म्रियते तथैव कामैर्दष्टा जीवा म्रियते यथा हि फणामणिभूषिताः सर्पाः शोभना दृश्यंते, स्पृष्टाश्च विनाशाय स्युः, एतादृशान् कामान् प्रार्थयतो जना दुर्गतिं यांति कीदृशा जनाः ? अकामाः, कामसुखाभिलाषं वांछंतोऽप्यलभमाना अप्राप्तमनोरथाः कामिनो नरकादौ व्रजंति, तस्मादेते प्रत्यक्षं सुखोत्पादका अपि कामाः कष्टदायकत्वात्संयमधर्मश्च सकलकष्टहरत्वाद्विवेकिभिः कामास्त्याज्याः, संयमो ग्राह्य इति हार्दः ॥ ५३ ॥ अथ कथं दुर्गतिं यांतीत्याह
॥ मूलम् ॥ अहे वय कोहेणं । माणेणं अहमागई ॥ माया गइपडिग्घाओ । लोभाओ दुहओ भयं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
74.
00000000000
सटीकं
॥ ३०६