________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
తరాం తందిరండూల తిలకంతిక
॥मूलम् ॥ आसणे उवचिट्ठिज्जा । अणुच्चे अक्कुए थिरे ॥ अप्पोट्टाई निरुटाई। निसीइजप्पकुक्कए ॥ ३०॥ व्याख्या-सुशिष्य एतादृशे आसने उपतिष्टेत, कीदृशे आसने तदाह-अनुच्चे द्रव्येण भावेनानुच्चे गुरोरासनाद्धीने, पुनरकचे चीत्कारादिशब्दरहिते, ताशस्यासनस्य शृगारांगत्वात्, पुनः स्थिरे आसने समपादे तिष्टेत्. अथ स साधुरीदृशे आसने कीदृशः सन् तिष्टेत्तदाह-अल्पोत्थायी, कार्ये सत्यप्यल्पमुत्तिष्टतीत्येवंशोलोऽल्पोत्थायी, मुहर्मुहुरासनान्नोत्तिष्टेत्, पुनः कीदृशः? निरुत्थायी निमित्तंविना नोत्तिष्टेत, स्थिरं तिष्टेदित्यर्थः, पुनः पुनरुत्थानशीलस्य साधुत्वं न भवेत्, पुनः स साधुः कीदृशो भवेत् ? अल्पकुक्कुचो भवेत, हस्तपादशिरःप्रमुखशरीरावयवानधुन्वानो निश्चलस्तिष्टेदित्यर्थः ॥३०॥ चरणे विनयरूपामेषणामाह
मूलम् ॥-कालेण णिक्खमे भिक्खू । कालेण य पडिक्कमे ॥ अकालं च विविजित्ता। काले कालं समायरे ॥ ३१ ॥ व्याख्या-काले प्रस्तावे भिक्षुः साधुनिःकमेद्भिक्षार्थ निर्गच्छेत्, च पुनः काले एव प्रतिक्रमेदाहारं गृहीत्वा स्वस्थानाय पश्चादागच्छेत्, अकालमप्रस्तावं विशेषेण वर्जयित्वा क्रियाया
000000000000000000000
॥२७॥
For Private And Personal Use Only