________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥३०१
160606060666-0006€960
हीनबलानां कातराणां सुखेनोदरभरणकरणसमर्थं भिक्षूणामाश्रमं वांछसि. यत उक्तं-गृहाश्रमसमो धर्मो । न भूतो न भविष्यति ॥ पालयंति नराः शूराः। क्लीवाः पाखण्डमाश्रिताः ॥ १॥ सुदुर्वहं परिज्ञाय । घोरं गार्हस्थ्यमाश्रमं ॥ मुंडनग्नजटावेषाः । कल्पिताः कुक्षिपूर्तये ॥ २॥ सर्वतः सुंदरा भिक्षा । रसा यत्र पृथक् पृथक् ॥ स्यादैकयामिकी सेवा । नृपत्वं साप्तयामिकं ॥३॥ तस्मादिदं कातराणामाचरितं भवादृशानां शूराणां न योग्यमिति हार्द. इहैवात्रैव गृहस्थाश्रमे पोषधे रतश्चतुर्दशीपूर्णिमोदिष्टामावास्याष्टम्यादितिथिषूपवासादिरतो भव ? अणुव्रतोपलक्षणं चैतत्, अस्योपादानं पर्वदिनेष्ववश्यं तपोऽनुष्टानख्यापकं, यद्यद् घोरं दुष्करं तत्तद्धर्मार्थिना नरेणानुष्टयं. यथानशनादीत्यंतगतहेतुकारणे खयमेव ज्ञेये.
॥मूलम् ।।-एयमÉ निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसी। देविंदमिणमबवी ॥ ४३ ॥ व्याख्या-अथ नमिराजर्षिर्देवेंद्रप्रति गृहस्थाश्रमाद्भिक्षुकाश्रमेऽधिकलाभं दर्शयति, धर्मव्यापारपरो ह्यधिकलाभदृष्टिर्भवेत. ॥४३॥
iP-6666669000
01॥३०१
For Private And Personal Use Only