SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३०० ॥ ००० 999999 www.kobatirth.org तस्सवि किंचणं ॥ ४० ॥ व्याख्या -यो गवां सहस्राणां सहस्रमर्थाद्दशलक्षं गवां मासे मासे दाने | पात्रेभ्यो दद्यात्तस्यैवंविधस्य गवां दशशतसहस्रदायकस्यापि तस्माद् गवां दानात्साधोः संयम आश्र वादिभ्यो विरागः श्रेयानतिशयेन प्रशस्यः, अत्र साधोरिति पदमध्याहार्य. कीदृशस्य साधोः ? किंचित्स्वल्पं वस्त्वप्यददानस्यादातुरित्यर्थः ॥ ४० ॥ ॥ मूलम् ॥ - एयमहं निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिं रायरिसिं । देविंदो इणमी ॥ ४१ ॥ व्याख्या - एतत्पूर्वोक्तमर्थं श्रुत्वा नमिं राजर्षिप्रति देवेन्द्रः पुनरब्रवीत्. ॥ ४१ ॥ अथ चतुर्णामाश्रमाणां मध्ये प्रथमं गृहस्थाश्रममेव वर्णयति, प्रव्रज्यादादर्थं च परीक्षयति ॥ मूलम् ॥-घोरासमं चइत्ताणं । अन्नं पच्छेसि आसमं ॥ इहैव पोसहरओ । भवाहि मणुआहिव ॥ ४२ ॥ व्याख्या-भो मनुजाधिप ! घोराश्रमं गृहस्थाश्रमं त्यक्त्वान्यं भिक्षुकाश्रमं प्रार्थयसि, घोरो हीनसत्वैर्नरैवोढुमशक्यः, आश्रम्यते विश्रामो गृह्यते यस्मिन् स आश्रमः, आश्रमाश्चत्वारः - ब्रह्मचारिगृहिवानप्रस्थमिक्षुरूपाः, तत्र गृहिणामाश्रमो हि दुरनुचरः पालयितुमशक्यस्तं परित्यज्यान्यमपरं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥३०० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy