________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥२९६॥
10000000000000000000
हाराः पाशवाहकास्तान्निवार्य, पुनर्प्रथिं द्रव्यग्रंथिं घुर्घरककत्रिकाक्षुरकादिप्रयोगेण भिंदंति विदारयंतीति ग्रंथिभेदास्तान् सर्वान् तस्करान्निराकार्य नगरं तस्कररहितं कृत्वा पश्चात्परिव्रजेदित्यर्थः ।२८।
॥ मूलम् ॥ एयमढे निसामित्ता। हेऊकारणचोइओ ॥ तओ ममिरायरिसी। देविंदमिणमववी । ॥ २९ ॥ व्याख्या-तत एतद्वचनं श्रुत्वा नमिराजर्षिरिंद्रप्रतीदं वचनमब्रवीत्. ॥ २९ ॥
॥ मूलम् ॥-असई तु मणुस्सेहिं । मित्थादंडो पयुंजए ॥ अकारिणोत्थ बज्झंति । मुच्चई | कारगो जणो ॥ ३०॥ व्याख्या-असकृद्वारंवारं मनुष्यमिथ्या कृथैवापराधरहितेषु निरपराधजीवेष्वज्ञानादहंकाराद्वा दंडः प्रयुज्यते, यतो ह्यत्र संसारेऽकारिण आमोषादिक्रूरकर्मणामकर्तारो बध्यंते, कारकाश्चामोषादीनां क्रूरकर्मणां कर्तारश्च जना मुच्यते, अनेन तेषां तु ज्ञातुमशक्यत्वेन क्षेमकरणस्याप्यशक्यत्वं प्रोक्तं, यदिंद्रियाण्यामोषतुल्यानि ज्ञेयानि, तान्येव जेयानि. ॥ ३०॥
॥ मूलम् ॥–एयमहं निसामित्ता । हेऊकारणचोइओ॥ तओ नमिरायरिसिं । देविंदो इण- मववी ॥ ३१ ॥ व्याख्या-एतन्नमिराजर्वचनं श्रुत्वा देवेंद्रो नमिराजर्षिप्रतीदमब्रवीत्. ॥ ३१॥ 16
-00000000000000000000
॥२९६॥
For Private And Personal Use Only