________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥ २९५॥
90000000000000000
तु मार्गप्रायमेव ज्ञेयं, यस्य तु गमनस्य निश्चयो भवेत्स मार्गे गृहं न कुर्यादेव, अहं तु न संशयितः, मम संशयो नास्तीति हार्द. सम्यक्त्वादिगुणयुक्तानां मुक्तिनिवासयोग्यत्वेन यत्रैव गंतुमिच्छेत्तत्रैव स्वाश्रयं स्वगृहं, अथवा सासयमिति शाश्वतमविनश्वरं गृहं कुर्यादित्यर्थः ॥२६॥
॥ मूलम् ॥-एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमि रायरिसिं । देविंदो इणमववी ॥ २७ ॥ व्याख्या-ततः पुनर्देवेंद्रो नमिराजर्वचनं श्रुत्वा नमिराजर्षिप्रतीदं वचनमब्रवीत्. २७
॥ मूलम् ॥-आमोसे लोमहारे य । गंठिभेये य तकरे ॥ नगरस्स खेमं काऊण। तओगच्छसि खत्तिया ॥२८॥व्याख्या-हे क्षत्रिय ! त्वं ततस्तदनंतरं गच्छेः, किं कृत्वा ? नगरस्य क्षेमं कृत्वा, तत्र नगरे आमोषा लोमहाराः, च पुनथिभेदास्तस्कराः खात्रपातका लुटाका विद्यते, तान् नगरान्निकास्य सुखं कृत्वा पश्चात्त्वया दीक्षा गृहीतव्या. आमोषादयो ह्येते तस्कराणां भेदाः संति, आ समंतान्मुष्णंति चोरयंतीत्यामोषास्तान्निवार्य, लोमहारास्ते उच्यते येऽतिनिर्दयत्वेन परस्य पूर्व प्राणान् हृत्वा पश्चाद् द्रव्यं गृह्णन्ति, ते लोमहाराः, लोम्ना तंतुना पट्टसूत्रमयपाशेन प्राणान् हरंतीति लोम
BOLED D2999028001
२९५॥
For Private And Personal Use Only