________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥२९३॥
తింటంతం అంతంత
स्यात्, पराक्रमं क्रियायां बलस्फोरणं धनुः कृत्वा, च पुनस्तस्य धनुषः सदा ईमिर्यासमितिं जीवां प्रत्यंचां कृत्वा, च पुनस्तस्य पराक्रमधनुषोधृति धैर्य धर्माभिरति केतनं श्रृंगमयं धनुर्मध्ये काष्टं मुष्टिस्थानं कृत्वा, तत्केतनं च स्नायुना दृढं बध्यते, इदमपि धैर्यकेतनं श्रृंगमयंधनुर्मध्यस्थकाष्टं सत्येन सत्यरूपस्नायुना पलिमंथए इति परिबन्नीयात्. पुनस्तप एव नाराचा लोहमयो बाणस्तपोनाराचस्तेन युक्तं तपोनाराचयुक्तं, तेन तपोनाराचयुक्तेन, तेन पूर्वोक्तेन पराकमधनुषा कर्मकंचुकं कर्मसन्नाहं भित्वा. अत्र कर्मकंचुकग्रहणेन प्रबद्धकर्मवानात्मैवोद्धतः शत्रुः, स एव योधव्यः, तस्यैव कर्मकंचुकं कर्मसन्नाहं भेद्यमित्यर्थः. कर्मणस्तु कंचुकत्वं तद्गतमिथ्यात्वाविरतिकषायादयभाज आत्मनः श्रद्धानगरस्य रोधं कुर्वतो दुर्निवारत्वात्, कर्मकंचुकभेदात्तस्यात्मनो जितत्वात्, जितकाशी जात एव, प्राकारं कारयित्वेत्यादि तस्य साधनता प्रोक्ता. ॥२२॥
॥ मूलम् ॥-एयम निसामित्ता। हेऊकारणचोइओ ॥ तओ नमिरायरिसिं । देविंदो इणमववी ॥ २३ ॥ व्याख्या-एतन्नमिराजर्वचनं श्रुत्वा देवेंद्रो नमिराजर्षिप्रतीदमब्रवीत् ॥ २३ ॥
A000000000850680005@
॥२९३॥
For Private And Personal Use Only