________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥ २९२॥
00000@OO
तवनारायजुत्तेणं । भितणं कम्मकंचुयं ॥ मुणी विगयसंगामो । भवाओ परिमुच्चई ॥२२॥ व्याख्यातिस्मृभिर्गाथाभिरिंद्रवाक्यस्य प्रत्युत्तरं ददाति-भो प्राज्ञ ! मुनिर्जिनवचनप्रमाणकृत्साधुभवात्संसारात्परिमुच्यते, परि समंतान्मुक्तो भवति, मुक्तिसौख्यभाक् स्यात्. कथंभूतो मुनिः ? विगतसंग्रामः, विगतः संग्रामो यस्मात्स विगतसंग्रामः, सर्वशत्रूणां विजयात्संग्रामरहितो जात इत्यर्थः. स मुनिः किं कृत्वा विगतसंग्रामो जातस्तदाह-श्रद्धांतत्वश्रवणरुचिरूपां समस्तगुणाधारभृतां, भगवद्वचने स्थैर्यबुद्धिं नगरं कृत्वा, तत्र श्रद्धानगरे उपशमवैराग्यविवेकादीनि गोपुराणि कृत्वेत्यनुक्तमपि गृह्यते, तपो द्वादशविधं, संयम सप्तदशविधं, अर्गलाप्रधानं कपाटमपि अर्गला, ततो अर्गलाकपाटं कृत्वा, पुनस्तस्य श्रद्धानगरस्य शांतिप्राकारं कृत्वा,क्षमां वप्रं कृत्वा, कथंभूतंप्राकारं? निपुणं परिपूर्णधान्यपानीयादिभिर्भूतं, पुनः कथंभूतं प्राकारं? तिमृभिर्गुप्तिभिर्गुप्तंरक्षितं, गोपुराहालकोत्सूलकखातिकास्थानीयादिभी रक्षितं, पुनः कीदृशं प्राकारं? दुःप्रधर्षिकं शत्रुभिर्दुराकलनीयं, पूर्वमिंद्रेण प्राकारादीन् कारयित्वेत्युक्तं, तस्योत्तरमिदं ज्ञेयं. अथाधुना प्राकारादौ संग्रामो विधेय इत्याह-मुनिर्विगतसंग्रामः
10000000000000000000000
छ
॥२९२॥
For Private And Personal Use Only