________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥२५॥
000000000000000000000
मारमार्थ वाथवा परार्थ वाथवोभयार्थमंतरेण प्रयोजनं विनापि च न वदेदित्यर्थः ॥ २५॥ स्वगतदोपत्यागमुक्त्वापाधिकृतदोषत्यागमाह
॥ मूलम् ॥-समरेसु अगारेसु । संधीसु य महापहे ॥ एगो एगत्थिए सद्धिं । नेव चिठे न संलवे ॥ २६ ॥ व्याख्या-एतेषु स्थानेष्वेक एकाकी सन् साधुरेकाकिन्या स्त्रिया साधं न तिष्टेत्, न चैकाकी साधुरेकया कामिन्या सह संलपेत्. तानि कानि स्थानानि? समरेषु गर्दभकुटीरेषु लोहकारशालासु वा, तथाऽगारेषु, शून्यगृहेषु, तथा संधिषु गृहद्वयांतरालेषु, तथा महापथे राजमार्ग, अत्रैकस्यायग्रहणमत्यंतदुष्टत्वप्रतिपादनार्थ. ॥ २६ ॥ अथ गुरुभिः शिक्षार्थं शिक्षमाणः शिष्यः किं कुर्यादित्याह
॥ मूलम् ॥-जं मे बुद्धाणुसासंति । सीएण परुसेण वा ॥ मम लाभुत्तिपेहाए । पयओ तं पडि| स्सुणे ॥२७॥ व्याख्या-बुद्धा गुरवो यन्मे मम शीतेन शीतलवचनेन वाथवा परुषेण कठोरवचनेनाऽनुशासति शिक्षा प्रयच्छति तन्मम 'लाभुत्ति' मम लाभायाप्राप्तवस्तुप्राप्तये भविष्यतीति प्रेक्षयेति
1000000000000000000000
॥२५॥
For Private And Personal Use Only