________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥२४॥
000000000000000000000
भयं सूत्रार्थं पृच्छमानस्योभयं पूर्वोक्तं सूत्रार्थं व्याकुर्याद्वदेद्विनयवतः शिष्यस्याग्रे. यथा श्रुतं गुरुपरंपरातो यथा ज्ञातं सूत्रार्थ गुरुः कथयेदित्यर्थः. ॥ २३ ॥
॥मलम् ॥-मुसं परिहरे भिक्खू । न य ओहारिणिं वए ॥ भासादोसं परिहरे । मायं च वजए सया ॥ २४ ॥ व्याख्या-भिक्षुः साधुर्मुषां भाषां परिहरेत्, च पुनः 'ओहारिणिं' अवधारिणी निश्चयात्मिकामेवमेवेतिरुपां भाषां न ब्रवीत, भाषादोष सावधानुमोदनादिकं परिहरेत्, च पुनर्मायां वर्जयेत, मायाया ग्रहणेनान्येषामपि क्रोधमानलोभादीनां ग्रहणं सर्वान् कषायान् परिवर्जयेत, कषायाणां वर्जनान्मृषाभाषाया वर्जनं स्यादेव, कारणाभावे कार्याभावः ॥ २४ ॥
॥मूलम् ॥ न लविज पुट्टो सावज । न नरिटं न मम्मयं ॥ अप्पणट्ठा परट्टा वा । उभयस्संतरेण वा ॥ २५ ॥ व्याख्या-पुनः साधुः पृष्टः सन् सावा सपापवचनं न लपेन्न भाषेत, निरर्थकं वचनं च नालपेत, न च मर्मक मर्मरूपं वाक्यं साधुर्बयात्, म्रियतेऽनेनेति मर्म लोकराजविरुद्धादिकं. अथवा मर्मणि गच्छतीति मर्मगं, यस्मिन् कर्मणि प्रकटीभूते सति मनुष्यस्य मरणमेव स्यात्तदपि वाक्य
00000000000000069000
॥२४॥
For Private And Personal Use Only