________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥ २८६॥
'0000000000000000000
रणं पूर्व जातं, तदा पश्चादानंदादिशब्दलक्षणं कार्य जातं, यदा भवतो दीक्षाग्रहणं न स्यात्तदानंदादिशब्दश्च कथं स्यादित्यर्थः ॥ ८॥ एवं हेतुकारणाभ्यामिंद्रेण प्रेरितो नमिराजर्षिरथ यदब्रवीत्तदग्रेतनया गाथयाह
॥मूलम् ॥-महिलाए चेइए वत्थे । सीयच्छाए मणोरमे ॥ पत्तपुप्फफलोवेए । बहूणं बहुगुणे सया ॥९॥ वाएण हीरमाणंमि । चेइयंमि मणोरमे॥ दुहिआ असरणा अत्ता । एए कंदति भो खगा ॥ १०॥ व्याख्या-नमिराजर्षिः किमब्रवीदित्याह-मिथिलायां नगयाँ चैत्ये उद्याने भो एते खगाः पक्षिणः कंदति कोलाहलं कुर्वन्ति, चितिः पत्रपुष्पफलादीनामुपचयः, चितौ साधु चित्यं, चित्यमेव चैत्यमुद्यानं, तस्मिन् चैत्य उद्याने एते उच्यमाना खगा विहगाः पूत्कुर्वति, कथंभूते चैत्ये? मनोरमे मनोज्ञे, पुनः कीदृशे? वृक्षः शीतलच्छाये, कीदृशैर्वृ? पत्रपुष्पफलोपेतैः पत्रपुष्पफलैर्युक्तैः, पुनः कीडशे चैत्ये? बहूनां खगानां बहुगुणे प्रचुरोपकारजनके इत्यर्थः. एते खगाः क्व सति विलपति ? चैत्ये वृक्षे वातेन ह्रियमाणे सतीतस्ततः प्रक्षिप्यमाणे सति, उद्याने देवगेहे च वृक्षे चैत्यमुदाहृतमित्य
1000000000000000000000
॥२८९
For Private And Personal Use Only