________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२८५॥
000000000000000000
रणचोदितः, तत्र हेतुः पंचावयववाक्यरूपः, कारणं च येन विना कार्यस्योत्पत्तिर्न भवति, पंच अवयवा इमे-प्रतिज्ञा १ हेतु २ उदाहरण ३ उपनय ४ निगमन ५रूपाः, पक्षवचनं प्रतिज्ञा १, साध्य| साधकं हेतुः २, तत्सादृश्यदर्शनमुदाहरणं ३, उदाहरणेन साध्येन च संयोजनमुपनयः ४, हेतूदाह
रणोपनयैः साध्यस्य निश्चयीकरणं निगमनं ५, तथैव दर्शयति-तव धर्मार्थिनोऽस्मान्नगरागृहात्कुटुं| बाद्वा निःसरणं दीक्षाग्रहणमयुक्तमिति प्रतिज्ञावाक्यं, कस्मातोः? आकंदादिदारुणशब्दहेतुत्वात्, इदं हेतुवाक्यं २, यद्यदाक्रंदादिदारुणशब्दहेतुकं भवति तत्तद्धर्मार्थिनः पुरुषस्यायुक्तं, किंवत् ? हिंसादिकर्मवत्, यथा हिंसादि कर्माकंदादिदारुणशब्दहेतुकं तद्धिंसादिकर्म च धर्मार्थिनोऽप्ययुक्तं भवति, | इदमुदाहरणवाक्यं ३. तस्मात्तथा तवापि धर्मार्थिनो निःसरणमयुक्तं, इदमुपनयवाक्यं ४. तस्मादाकंदादिदारुणरौद्रशब्दहेतुत्वाद्धसादिकर्मवत्सर्वथा तव गृहात्कुटुंबान्नगरान्निःसरणमयुक्तमेव, इति निगमनवाक्यं ५. इति पंचावयवात्मको हेतुरुच्यते. कारणं दर्शयति-यदस्य पूर्वमसतो वस्तुन उत्पादकं तत्तस्य कारणं, भवतो गृहान्निःसरणं दारुणशब्दकार्यस्य कारणं ज्ञेयं, यदा भवतो गृहान्निःस
9000000000000000000000
॥२८५॥
For Private And Personal Use Only