________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sri Kalassagersuri Gyarmandie
उत्तरा
सटीकं
॥२८३॥
0000000000000000000064
एगंत महडिओ भयवं ॥४॥ व्याख्या-स भगवान् माहात्म्यवान् यशस्वी नमिराजा एकांतं द्रव्यतो वनखंडादिकं भावतश्च सर्वसंयोगरहितत्वं, एक एवाहमित्यतो निश्चयस्तमाश्रितः, पुनः कीदृशो नमिगजा? अभिनिःक्रांतः, अभि समंतान्निःक्रांतः संसारान्निस्सृतः, किं कृत्वा ? मिथिला सपुरजनपदां, तथा बलं, तथावरोधमंतःपुरंतथा परिजनं सर्व त्यक्त्वा, पुराणि च जनपदाश्च पुरजनपदाः, तैः | सह वर्तत इति सपुरजनपदा, तां सपुरजनपदां, एतादृशी मिथिलापुरी हित्वा. ॥ ४॥
॥ मूलम् ॥-कोलाहलगप्भूयं । आसी महिलाइ पव्वयंतंमि ॥ तइया राइरिसिमि । नमिमि अभिनिक्खमंतंमि ॥ ५॥ व्याख्या-तदा तस्मिन् काले मिथिलायां नगर्या सर्व स्थानं कोलाहलकभृतमासीत्, कोलाहलोऽव्यक्तरोदनाकंदितजनितकलकलशब्दः कोलाहलकः, भूतो जातो यस्मिंस्तकोलाहलकभूतं, एतादृशं सर्व स्थानं गृहविहारादिकं जातं, क सति ? नमौराझ्यभिनिःकामति सति, गृहात्कुटुंबात्क्रोधमानमायादिभ्यो वा निःसरति सति, कथंभृते नमो ? राजर्षों, राजा चासावृषिश्च राजर्षिस्तस्मिन् राजर्षों, राज्यावस्थायामपि ऋषिरिव ऋषिस्तस्मिन् राजर्षो. ॥ ५॥
0000000000000000000000
॥२८३॥
For Private And Personal Use Only