________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥ २८२॥
1000000000000000000000
भवं स्मृत्वा, कथंभूतः स नमिः? भयवं भगवान् धैर्यसौभाग्यमाहात्म्ययशोज्ञानादियुक्तः, पुनः कीदृशः ? | अनुत्तरे सर्वोत्कृष्टे श्रीजिनधर्म सह संबुद्धः स्वयं संबुद्धः. इति द्वितीयगाथाया अर्थः. स नमिः पूर्व देवलोके देव आसीत्, तेनेत्युक्तं. 'चइऊण देवलोगाओ' देवलोकाच्च्युत्वा स नमिभूपो मनुष्यलोके मनुष्यजन्मन्युत्पन्नः, स च नमिभूप उपशांतमोहनीयः सन् पौराणिकां जातिं पूर्वजन्मदेवलोकादि स्मरति. अत्र वर्तमाननिर्देशस्तत्कालापेक्षयोक्तः ॥२॥
॥ मूलम् ॥—सो देवलोकसरिसे । अंतेउर+गओ वरे भोगे ॥ भुंजित्तु नमीराया । बुद्धो राया परिच्चयई ॥३॥ व्याख्या—स नमिराजा बुद्धो ज्ञाततत्वः सन् परित्यजति, किं कृत्वा ? भोगान् भुक्त्वा, कथंभूतान् भोगान् ? वरान् प्रधानान् सर्वेन्द्रियसौख्यदान्, कीदृशः सन् ? वरे प्रधानेंतःपुरे गतः सन् स्त्रीसमूहे प्राप्तः सन्, कीदृशंतःपुरे? देवलोकसदृशे देवांगनासदृशे इत्यर्थः. भुक्तभोगस्य पुरुषस्य भोगा दुस्त्यजा इति हेतोोगान् परित्यजतीत्युक्तं. ॥३॥
॥ मूलम् ॥-महिलं सपुरजणवयं । बलावरोहं च परियणं सवं ॥ चिच्चा अभिनिक्खंतो।
0000000@@@@@@@@@@
२८२॥
@
For Private And Personal Use Only