________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२७९॥
0000000000000000000
पुनरेवं सा बभाषे सुदर्शनपुरस्वामी युगबाहुस्तवास्य च पिता, अहं मदनरेखा तब मातेति, पद्मरथस्तु तव पालकः पिता, त्वमनेन भ्रात्रा समं मा विरोधं कुरु? बुध्यस्व हितमिति साध्वीप्रोक्तं तथा युगवाहुनामांकितकरमुद्रादर्शनतश्च सर्व नमिः सत्यं मेने. तां साध्वी प्रकामं चित्तोल्लासेन स्वमातरं मत्वा विशेषान्ननाम नमिः, उवाच च मातर्यत्त्वया प्रोक्तं तत्सर्वं तथ्यमेव, नात्र काचिद्विचा-1 रणास्ति, ममेयं करमुद्रा युगबाहुसुतत्वं ज्ञापयति, अयं चंद्रयशा मे ज्येष्टभ्राता वर्तते, परं लोकः कथं प्रत्यायते? लघुभ्रातृवात्सल्यतो ज्येष्टश्चेत्सन्मुखमायाति तदाहमुचितं विनयं कुर्वन् शोभामुद्हामि. एवं नमिनृपोक्तमाकर्ण्य सा साध्वी दुर्गद्वारवर्मना प्रविश्य राजसौधे जगाम. चंद्रयशाभूपस्तु तामकस्मादागतामुपलक्ष्य स्वमातरं साध्वीं विशेषादभ्युत्थाय ननाम. उचितासनोपविष्टां तां सावी वृत्तांतं पृष्टवान्. साध्वी सकलं वृत्तांतं नमिराजमिलनं यावत्कथयामास, चंद्रयशा नृपस्तं नमि निजलघुभ्रातरं मत्वा सभालोकान्प्रत्येवमुवाच-सुलभाः संति सर्वेषां । पुत्रपन्यादयः शुभाः ॥ दुर्लभः सोदरो बंधु-र्लभ्यते सुकृतैर्यदि ॥१॥इत्युक्त्वा चंद्रयशा नृपोऽपि पुराहहिर्निर्गतः, नमिरपि तं ज्ये
0000000000000000000000
I॥२७९॥
For Private And Personal Use Only