________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥२७८॥
9000000000000000000000
कानां महान् संग्रामः प्रववृधे, नमिः कोहभंगं विधातुमुपायान् विविधान् करोति, चंद्रयशा नृपस्तु कोहरक्षणे विविधानुपायान् करोति. अस्मिन्नवसरे तयोर्माता साध्वी मदनरेखा प्रवर्तिनीमनुज्ञाप्य तत्संग्रामवारणार्थं प्रथमं नमिराजसैन्ये समायाता, नमिरपि तां साध्वीं ननाम, आसने चोपविश्य नमेः पुरः सा साध्व्येवं वाचं विस्तारयामास, अनंतदुःखैकभाजनेऽस्मिन् संसारे नृभवं प्राप्य पापैस्त्वं किं मुह्यसे? हे राजन् ! तव बंधुना चंद्रयशसा स्वयमागतो हस्ती चेदगृहीतस्तर्हि तेन समं | कथं युद्धं करोषि ? क्रुद्धस्त्वं न किंदेिसि, यदुक्तं-लोभी पश्येद्धनप्राप्तिं । कामिनी कामुकस्तथा ॥ भ्रमं पश्येदथोन्मत्तो। न किंचिच्च क्रुधाकुलः॥१॥ इदं साध्वीवचो निशम्य नमिश्चिंतयामासायं चंद्रयशा युगबाहुपुत्रोऽस्ति, अहं तु पद्मरथपुत्रोऽस्मि, इयं साध्वी सत्यवादिनी सती कथं मम चानेन समं भ्रातृत्वं वदतीति विमृश्य साध्वींप्रत्येवं भाषतेस्म हे पूज्ये! असौक्क? अहंक्क? भिन्नकुलसंभवयोर्मदे| तयोः कथं भ्रातृत्वं वदसीति नमिनोक्ते साध्वी प्राह हे वत्से! यौवने ऐश्वर्यभवं मदं मुक्त्वा यदि शृणोसि तदा सकलं स्वरूपं कथ्यते. अथ श्रोतुमुत्सुकाय नमिनृपाय सर्व पूर्वखरूपं साध्वी जगाद,
10000000000000000000000
॥ २७८॥
For Private And Personal Use Only