________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२८॥
90000000000000
ष्टभ्रातरमभ्यागच्छंतं दृष्ट्वा सिंहासनादुत्थाय भूतलमिलच्छिराः प्रणनाम, चंद्रयशा नृपोऽपि स्वकराभ्यां तं भूतलादुत्थाप्य भृशमालिलिंग. तुल्याकारौ तुल्यवर्णी तावेकमातृपितृत्वसंभूतत्वेन तदा परमप्रीतिपदं जातो. लोकैः सहोदरौ ज्ञातौ, चंद्रयशा नृपस्तु तदानीमेव नमिबंधवे सुदर्शनपुरराज्यं ददौ, स्वयं संग्रामांगणमध्ये दीक्षा ललौ, क्रमेण राज्यं पालयन्नमिः क्षितौ प्रचण्डाज्ञो जज्ञे. अन्यदा ममेर्वपुषि दाहज्वरो जातः, पूर्वकर्मदोषेण तस्य षण्मासिकी पीडा समुत्पन्ना, निद्रामपि न लेभे, अंतःपुरीनूपुरशब्दा अपि कर्णशूलायासन्, नमिराज्ञो दाहज्वरशांतये स्वयं चंदनं घर्पयंतीनामंतःपुरीणां वलयशब्दास्तु भल्लप्राया बभूवुः, तत्र ताभिर्वलयानि समस्तान्युत्तारितानि, एकैकं मंगलाय रक्षितं, तदान शब्दाश्रवणेन नमिना कश्चिन्निकटस्थः सेवकः पृष्टः, कथमधुना कंकणशब्दा न श्रूयन्ते? तेनोक्तं स्वामिन् ! भवत्पीडाकरत्वेनांतःपुरीभिः कंकणान्युत्तारितानि, एकैकं मंगलाय रक्षितमिति, नैकैककंकणशब्दाः श्रूयंते परस्परघर्षणाभावात्. एवं तद्वचः श्रुत्वा प्रतिबुद्धो नमिरेवं चिंतयामास यथा संयोगतः शुभा अशुभाः शब्दा जायंते, तथा रागादिका दोषाः,संयोगत एव भवंति,
@@@00000000000000000
॥२८०॥
For Private And Personal Use Only