________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीकं
॥२७६॥
000000000000000000000
नय? तत्राहं निर्वृतात्मना परलोकहितं करिष्यामीत्युक्तवंती तां देवो मिथिलापुरी निनाय, तत्र प्रथम मदनरेखा जिनचैत्यानि नत्वा श्रमणीनामुपाश्रये जगाम, वंदित्वा पुरो निविष्टां तां प्रवर्तिन्येवं प्रतिबोधयामास, मूढचेतसो जना धर्माद्विना भवक्षयमिच्छंतोऽपि मोहवशेन पुत्रादिषु स्नेहं कुर्वति, संसारे हि मातृपितृबंधुभगिनीदयितावधूप्रियतमपुत्रादीनामनंतशः संबंधा जाताः, लक्ष्मीकुटुम्बदेहादिकं सर्व विनश्वरं, धर्म एवैकः शाश्वतः, इत्यादि साध्वीवाक्यैः प्रतिबुद्धा सा सती देवन पुत्रदर्शनार्थं प्रार्थिता एवमाह, भववृद्धिकरण प्रेमपूरेण ममालं, अतःपरं तु साध्वीचरणमेव शरणमित्यु. | क्त्वा साध्वीसमीपे सा प्रव्रज्यां जग्राह. देवस्तां वंदित्वा स्वस्थाने जगाम, पद्मरथस्य गृहे यथा यथायं बालो वर्धते तथा तथा तस्यान्ये राजानोऽनमन्. ततः पद्मरथो राजा तस्य बालस्य नमिरिति नाम कृतवान्, वृद्धिं व्रजतस्तस्य बालस्य कलाचार्यसेवनात्सर्वाः कलाः समायाताः, सकललोकलोचनहरं यौवनमप्यस्यायातं, पित्रा चाष्टाधिकसहस्रराजकन्यापाणिग्रहणं कारितं, पद्मरथोऽस्मै राज्यं दत्वा स्वयं तपस्यां गृहीत्वा केवलज्ञानं प्राप्य मोक्षं गतवान्. नमिराजा प्राज्यं राज्यं पालयामास,
DOP 0000000000000
ol॥२७६॥
For Private And Personal Use Only