________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२७४॥
3000000000000000000000
नांतर्निधाय नंदीश्वरद्वीपे गतः, तत्र शाश्वतजिनर्विवानि नत्वा मदनरेखात्मानं कृतार्थ मन्यमाना मणिप्रभेण समं चतुर्ज्ञानधरं चारणश्रमणं प्रासादमंडपोपविष्टं मणिचूडमुनिं प्रणनाम, स मुनिस्तां
सती मत्वा स्वसुतं च लंपटं मत्वा तथा देशनां विस्तारयामास यथासौ युवा विद्याधरः स्वदारसं| तोषव्रतं जग्राह, मदनरेखां च स्वांबांभगिनी च मेने. अथ सा हृष्टमानसा सती पुत्रस्य कुशलोदंतं पप्रच्छ, मुनिराह हे महानुभावे ! शोकं मुक्त्वा सर्व सुतवृत्तांतं श्रुणु ? जंबूद्वीपे पुष्कलावती विजयोऽस्ति, तत्र मणितोरणा पुरी, तस्यां मितयशाराजा, स च चक्रवर्त्यभूत्, तस्य पुष्पवती कांता, तयोः पुष्पसिंहरत्नसिंहाभिधानी पुत्रावभृतां, तो सदयौ विनीतौ धर्मकर्मरतौ स्तः. अन्यदा तो राज्ये स्थापयित्वा चक्रवर्ती तपस्यां जग्राह, तो द्वावपि भ्रातरौ चतुरशीतिलक्षपूर्वयावद्राज्यं प्रपालयतः.
एकदा च तो दीक्षां गृहीतवंती, षोडषपूर्वलक्षाणि यावदीक्षां प्रपालयतः, अंते समाधिना मृत्वाऽच्युला तकल्पे सामानिको देवौ जातो. ततश्च्युत्वा धातकीखंडभरते हरिपेणराज्ञः समुद्रदत्ताभार्यासुतो सा
गरदेवदत्ताभिधानौ धार्मिको सहोदरी जातो. अन्यदा तौ द्वादशतीर्थकरस्य दृढसुव्रतस्य बह व्यति
P॥२७४।।
For Private And Personal Use Only