________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २७३ ॥
www.kobatirth.org
सीद ? मां पुत्रेण मेलय ? पुत्रभिक्षाप्रदादेन त्वं मे दयां कुरु ? सोऽपि युवा विद्याधर एतस्यां सरागं चक्षुः क्षिपन्नेवमुवान, गंधारदेशे रत्नवाहं नाम नगरमस्ति, तत्र विद्याधरेंद्रो मणिचूडो वर्तते, अस्य प्रिया कमलावती मणिप्रभनामानं पुत्रं मां प्रासूत, यौवनावस्थां गतस्य च मे श्रेणिद्वयराज्यं दत्वा मणिचूडः स्वयं प्रव्रज्यां जग्राह स चारणमुनिभिश्चतुर्ज्ञानी भृत्वा सांप्रतमष्टमे ( नंदीश्वर ) द्वीपे जिनविन नंतुं समायातोऽस्ति, अहं तत्र वंदितुं गच्छन्नभृवं, अंतराले त्वां दृष्ट्वा लावा चाहं पुनरत्रागतः, अतःपरं त्वं मे प्रिया भव? तवादेशकरोऽहमस्मि तव पुत्रसंबंधो मया प्रज्ञप्तीविद्यया ज्ञातः, अश्वापहृतो मिथिलेश्वरः पद्मरथाख्यस्तत्रायातः, तं बालं सुरूपं दृष्ट्वा गृहीत्वा च स्वपत्न्यै ददौ तत्र स प्रकामं सुखभागस्ति एवं तद्वचः श्रुत्वा मदनरेखाचिंतयदयं स्वतंत्रो युवा दृप्तो मे शीलभंगं करिष्यतीति तावत्कालं मे विलंबः श्रेयान् यावदस्य पिता साधुर्न वंद्यते, तदुपदेशात्सर्वं भव्यं भविष्यतीति ध्यात्वा मदनरेखावदत् हे भद्र! त्वं मां प्रथमं नंदीश्वरे नय ? यथाहं तजिनबिंबानि वंदे, पश्चात्कृतकृत्याऽहं तवेप्सितं करिष्यामि एवं तयोक्ते सहर्षो मणिप्रभस्तां विमा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ २७३ ॥