________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥२७२॥
00000000000000000000
न्याश्रय? परमेष्टिमंत्रस्मरणं कुरु ? मनसा सम्यक्त्वमाश्रय ? इत्येवं मदनरेखावचनानि श्रद्दधानः पंचपरमेष्टिमंत्रं स्मरन् युगबाहुः परलोकमसाधयत्. अथ मदनरेखा मनस्येवं चिंतयामास यत्स्वतंत्रो ज्येष्ठो मम शीलं विध्वंसयिष्यति, ततो निःसरणावसरो मम सांप्रतमेवास्तीति निश्चित्य मदनरेखा वेगतो निर्गता, सद्य एकाकिन्येव व्रजंत्युत्पथमाश्रिता. क्वापि महत्यामटव्यां प्राप्ता, विभावरा विरराम, | जातं प्रभातं, सा देवगुरुनामस्मरणं चकार, मध्याह्ने सा प्राणयात्रां फलैरेवाकरोत्, तस्यामेवाटव्यां
सुप्तायास्तस्याः शीलप्रभावेण न किंचिद्भयं बभूव, सा सत्यर्धरात्रौ पुत्रं सुषुवे, पितृनामांकितमुद्रां तस्यांगुलौ क्षिप्त्वा रत्नकंबलेन वेष्टयित्वा शुचिभूमौ निक्षिप्य मदनरेखा शौचार्थं सरसि गता, तत्र स्नानं कुर्वती जलकरिणा शुण्डादंडेन गृहीता नभस्युत्क्षिप्ता, नभसोऽपि च पतंती तां कश्चियुवा विद्याधरो वैताढ्यं निनाय. सा विद्याधरं प्राह बंधोऽहमद्य निश्यटव्यां पुत्रमजीजनं, स तु रत्नकंबलवेष्टितो मया तत्रैव मुक्तोऽस्ति, अहं तु सरसि स्नानं कुर्वंती जलकरिणोत्क्षिप्ता त्वया गृहीतात्रानीता. अथ त्वं ततो मत्पुत्रमिहानय? मां वा तत्र नय? अन्यथा बालस्य तत्र मरणापद्भविष्यति, त्वं प्र
000000000000000000000
॥२७२॥
For Private And Personal Use Only