________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २७९ ॥
1008
°T6GS
www.kobatirth.org
तस्या गुरुदेववंदनार्चादोहद उत्पन्नः, युगबाहुस्तमप्रूपुरत्.
अन्यदा युगबाहुर्व संते मदनरेखया सममुद्याने रंतुं गतः, तत्रैव रात्रौ कदलीगृहे सुप्तः, परिवारः समंतात्तद्गृहं वेष्टयित्वा स्थितः, तदावसरं ज्ञात्वा मणिरथनृपस्तत्रैकाको समायातः, अद्य युवराजोऽत्र कथं सुप्त इति यामिकान्प्रत्युवाच युगबाहुरपि कदलीगृहाइहिरागत्य मणिरथपादौ ननाम, नमतोऽस्य स्कंधदेशे मणिरथः खड्गं चिक्षेप, उवाचैवं च धिग्मे प्रमादतः करात्खड्गं पतितं मणिरथेंगिताकारेण तद्दुः कर्म ज्ञात्वाऽपि स्वामीत्युपेक्षितः इतोऽपसर ? इत्युक्तश्च मणिरथः सद्यस्ततो गतः पितृघाताती निशम्य चंद्रयशः पुत्रो घातचिकित्सिकैः परिवृतस्तत्रायातः, चिकित्सिकैरंत्यावस्थागतं युगबाहुं निरीक्ष्य धर्म एवास्योषधमित्युक्तं, मदनरेखा भर्तुरंत्यावस्थां विलोक्य विधिनाराधनां कारयामास, हे दयित मे विज्ञप्तिं शृणु ? धनांगनादिषु मोहं त्यज ? जैनधर्मं स्वीकुरु ? हितं भजस्व ? धर्मप्रसादादेव प्रधानं कुटुंबगेहादिकं भवांतरे प्राप्स्यसि, सर्वाण्यपि पापानि सिद्धसाक्षिकमालोचय ? पुण्यान्यनुमोदय ? सर्वजीवान् क्षामय ? अष्टादशपापस्थानानि व्युत्सृज ? अनशनं कुरु ? शुभभावनां भावय ? चतुःशरणा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
।। २७१॥