________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥२६
॥
00000000000000000
अन्यदा द्विमुखनरेंद्रस्य पुरे लोकैरिंद्रस्तंभोऽद्भुतः कृतः पूजितश्च, द्विमुखनृपोऽपि तं भृशं पूजितवान्, तस्मिन्महे व्यतीतेऽन्येास्तमिंद्रस्तंभं विलुप्तशोभममेध्यांतः पतितं द्विमुखराजा ददर्श च एवं चिंतयामास, जनैयः पूजितो मणिमालाकुसुमादिभिश्च श्रृंगारितः सोऽयमिंद्रस्तंभः सांप्रतमीदृशो जातः, यथायं स्तंभः पूर्वापरावस्थाभेदमाप्तस्तथा सर्वोऽपि संसारी भिन्नां भिन्नामवस्थामाप्नोति, अव| स्थाभेदकारणं रागद्वेषावेव, तत्प्रलयस्तु समताश्रयणाद्भवति, समता च ममतापरित्यागाद्भवति, ममतापरित्यागस्तु संयम विना न भवतीति वैराग्यमापन्नः शासनदेवतासमर्पितवेषः सर्वविरतिसामायिकं द्विमुखराजा स्वयं प्रतिपद्य प्रत्येकबुद्धो बभूव. उक्तं च वीक्ष्यार्चितं पौरजनैः सुरेश-ध्वज च लुप्तं पतितं परेऽह्नि ॥ भूतिं त्वभूति द्विमुखो निरीक्ष्य । बुद्धः प्रपेदे जिनराजधर्म ॥१॥ इति द्वितीयप्रत्येकबुद्धद्विमुखचरित्रं समाप्तम्. ॥२॥
यदानी द्विमुखराजा प्रतिबुद्धस्तदानीमेव नमिराजा प्रतिबुद्धः, अथ तृतीयप्रत्येकबुद्धनमिचरि|त्रमुच्यते-मालवमंडलमंडनं सुदर्शनपुरमस्ति, तत्र मणिरथो राजा, तस्य लघुभ्राता युगबाहुर्वर्तते, 13/
ថ្ងៃផ្សំថ្ងៃដ៏វៃផ្គុំថ្មីថិច្ចប្ដី ប្រជុំ
॥२६९॥
For Private And Personal Use Only