________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥२६८॥
ធ្វើអ្វីម្បី បំភ្លឺជុំបិខ្ញុំ
पुत्री तु नैकापि जनितेति तन्मनोरथपूर्तये सा मदनयक्षमारराध, अन्यदा सा कल्पद्रुमकलिका स्वप्ने ददर्श, क्रमेणेमां कन्यां सुषुवे, यक्षोपयाचितं मत्वास्या मदनमंजरीति नाम कृतं, सांप्रतं सर्वलोकचमत्कारकरी यौवनागमे इयं जाता. इति यामिकवचनं श्रुत्वाऽप्सरोऽधिकं च तद्रूपं दृष्ट्वा कामार्तश्चंडप्रद्योतश्चिंतयतीयं चेन्मम पत्नी स्यात्तदा मम जीवितं सफलं स्यात्, राज्यभ्रंशोऽपि मे कल्याणाय जातो यदियं मया दृष्टा, चेद् द्विमुखो राजेमां मह्यं दत्ते, तदाहमस्य यावजीवं सेवको भवामि, चंडप्रद्योतस्येदृशोऽभिप्रायस्तदा यामिकैख़त्वा द्विमुखराज्ञे कथितः, राजाज्ञया यामिकैश्चंडप्रद्योतः सभायामानीतः, द्विमुखराज्ञाऽभ्युत्थानं कृत्वा चंडप्रद्योतः स्वार्धासने निवेशितः, प्रांजलीभूय चैवं बभापे, मत्प्राणास्तव वशगाः संति, मच्छ्रियस्त्वदायत्ताः संति, त्वं मम प्रभुरसि, अहमतःपरं सदैव तब सेवकोऽस्मि. अथ तद्भाववेत्ता द्विमुखराजा चंडप्रद्योताय तदैव निजां पुत्री ददी, ज्योतिर्विदृभिः सुमुहतें दत्ते चंडप्रद्योतनृपो द्विमुखराजपुत्री परिणीतवान्, करमोक्षावसरे च तस्मै घनं द्रव्यं दत्तमवंतीदेशं च दत्तवान्, कन्यासहितं चंडप्रद्योतं खदेशे द्विमुखो विसर्जितवान.
000000000000000000000
॥२६८॥
For Private And Personal Use Only