________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥॥ २६६ ॥
9999999999990090000
www.kobatirth.org
|गस्तृणव द्राज्यं परित्यज्य प्रव्रज्यामाददे. उक्तं च श्वेतं सुजातं सुविभक्तभृंगं । गोष्टांगणे वीक्ष्य वृषं जरातं ॥ ऋद्धिं च वृद्धिं च समीक्ष्य बोधा - त्कलिङ्गराजर्षिरवाप धर्मम् ॥१॥ इति करकंडुनृपचरित्रं समाप्तम्. ॥ यदान करकंडुराजा प्रतिबुद्धस्ततो द्विमुखराजा प्रतिबुद्धस्ततो द्विमुखचरित्रं प्रोच्यते - कांपिल्यपुरे जयवर्मराजा, तस्य गुणमाला प्रियास्ति. अन्येयुर्जयवर्मराजा स्थपतीनेवमाहाद्भुतमास्थानमंडपं कुरुत ? वास्तु ज्ञैस्तैर्भूमिपूजापुरस्सरं भूमिभागं परीक्ष्य सुमुहूर्ते खातं विरचितं, तत्र खाते पंचमदिवसे नानामणिमंडितः खमणिरिव प्रज्ज्वलन् मुकुटो दृष्टः, तैर्विज्ञप्तो राजा सहर्ष भूमितस्तं मु| कुटं जग्राह विचित्रवादित्रनिर्घोषपूर्वं महतोत्सवेन तं मुकुटं स्वगृहे प्रावेशयत्, वस्त्राद्यैः सत्कृताः शि| ल्पिनो विमानसदृशमास्थानमंडपं सयञ्चकुः, चित्रकरैस्तत्सद्य एव चित्रितं, भूपः शुभमुहूर्ते तं मुकुटं मस्तके निधाय तस्मिन्नास्थानमंडपे सुवर्णासने निविष्टः तस्मिन् मुकुटे मूर्ध्नि स्थिते सति राज्ञो मुखद्वयं दृश्यते, तदनु स राजा लोके द्विमुखतया विख्यतः अथेयं मुकुटकथा
अवंतीशेन चंडप्रयोतेन तत् श्रुत्वा स्वदूतस्तत्र प्रहितः, दूतोऽपि तत्र गत्वा द्विमुखंप्रत्येवम
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ २६६ ॥