________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२६५॥
धन.
TTTTTTTg giai
गृहीतवान्, करडुनृपो राज्यद्वयं पालयामास, चंपायामेव स्वावासमकरोत्, तस्य गोकुलानीष्टान्यासन्. संस्थानाकृतिवर्णविशिष्टानि गोकुलानि कोटिसंख्यानि तेन मेलितानि, सतानि निरंतरं पश्यन् प्रकामं प्रमोदं लभते. अन्येयुः स्फटिकसमान एको गोवत्सस्तेन गोकुलमध्ये दृष्टः, अयं कंठपर्यंतदुग्धपानैः प्रत्यहं पोषणीय इति गोपालान् स आदिष्टवान्. अन्यदा स मांसः पुष्टतनुर्बलशाली घनघर्षरशब्देनान्यवृषभान त्रासयन् भूपतिना दृष्टः, तथापि भूपतिस्तस्मिन् वृषे प्रीतिपर एव बभूव.
अथ साम्राज्यकार्यकरणव्यग्रो भूपतिः कतिचिद्वर्षाणि यावद् गोकुले नायातः. अन्यदा तदर्शनोत्कंठः स भूपतिस्तत्र समायातः, स वृषःक्व इति गोपालान् भूपतिः पप्रच्छ, गोपालैजराजीर्णः पतितदशनो हीनबलो वत्सैघट्टितदेहः कृशांगः स दर्शितः. तं तथाविधं दृष्ट्वा भवदशां विषमां विचारयन् करकंडुराजैवं चिंतयति, यथायं वृषभः पूर्वावस्थां मनोहरां परित्यज्येमांवृद्धावस्थांप्राप्तः, तथा सवोऽपि संसारी संसारे नवां| नवामवस्थां प्राप्नोति, मोक्षे चैवैकावस्था, मोक्षस्तु जिनधर्मादेव प्राप्यते, अतो जिनधर्ममेव सम्यगाराध| यामीति परं वैराग्यं प्राप्तः करकंडुराजास्वयमेव प्राग्भवसंस्कारोदयात्प्रतिबुद्धः सद्यः शासनदेव्यर्पितलिं
ce682086860000er
॥२६५॥
For Private And Personal Use Only