________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥२६४॥
It staff is
स्यति. एवमुक्त्वा दधिवाहनेन तिरस्कृतः स दूतस्तत्र गत्वा करकंडुनृपाय यथार्थमवदत. करकंडुनृपोऽपि प्रकामं क्रुद्धः स्वसैन्यपरिवृतश्चंपापुरसमीपे समायातः. दधिवाहनोऽपि पुरीदुर्ग सजीकृत्य | स्वयं बहिनिस्ससार. उभयोः सैन्ये सज्जीभृते यावता योध्धुं लग्ने तावता सा साध्वी तत्रागत्य करकंडुनृपतिंप्रत्येवमूचे हो करकंडुनृप! त्वयाऽनुचितं पित्रा सह युद्धं किमारब्धं ? करकंडुनृपः प्राह हे महासति ! कथमेष दधिवाहनोऽस्माकं पिता? साध्वी स्वस्वरूपमखिलं तमूचे, स आयाँ मातरं दधिवाहनं च पितरं मत्वा जहर्ष, तथापि करकंडुनृपोऽभिमानात्स्वपितरं दधिवाहनं नंतु नोत्सहते, तदा साव्यपि दधिवाहनसमीपे गता, दधिवाहनभृत्यैरुपलक्षिता, दधिवाहनभूपाय राज्ञी साध्वीरूपा समागतेति वर्धापनिका दत्ता. अथ दधिवाहननृपोऽपि तां साध्वीं ननाम, गर्भवृत्तांतं च पप्रच्छ. साध्व्यूचे सोऽयं ते तनयो येन सह त्वया युद्धमारब्धमस्ति. अथ दधिवाहननृपः प्रीतात्मा पादचारी करकंडुनृपंप्रति गत्वा हे वत्स! उत्तिष्टेत्युक्त्वा तमुत्थाप्याश्लिष्य च शिरस्याजिधनहर्षाश्रुजलसहितैस्तीर्थजलैः पुत्रोऽयं राज्यद्वयेऽपि दधिवाहनेनाभिषिक्तः, दधिवाहनः कर्मविनाशाय स्वयं दीक्षा।
are
00000000002.600
site
॥२६॥
For Private And Personal Use Only