________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
©
उत्तरा
सटोकं
॥२६३॥
2ên đề 3
300000000000000000000
पुष्पवृष्टिं चक्रुः, भीताःसंतो विप्रास्तस्य स्तुतिं कृत्वा वारंवारमाशीर्वादमुच्चरंति. अथकरकंडुरेवमुवाचाहो ब्राह्मणा एते भवद्भिश्चांडाला गर्हितास्ततः सर्वेऽप्यमी वाटधानकवास्तव्याश्चांडालाः संस्कारैर्ब्राह्मणाः | कार्याः, संस्कारादेव ब्राह्मणो जायते, न तु जात्या कश्चिद्ब्राह्मणो भवतीति भवदागमवचनात्. अथ ते ब्राह्मणाः प्रकामं भीतास्तन्नगरवाटधानकवास्तव्यांश्चंडालान् संस्कारैर्ब्राह्मणान् चक्रुः उक्तं च-दधिवाहनपु त्रेण। राज्ञातु करकंडुना॥वाटधानकवास्तव्या-श्चांडालाब्राह्मणीकृताः॥१॥ अत्युत्सवेन कांचनपुरे प्रवे| शितः स करकंडुरमात्यैर्नुपपट्टेऽभिषिक्तः,क्रमात्स महाप्रताप्यभूत. अन्यदा सवंशप्रतिवादी विप्रस्तं भूपं निशम्य ग्रामाभिलाषुकः सन् करकंडुनृपपर्षदि प्राप्तः, करकंडुनोपलक्ष्य तस्य विप्रस्योक्तं तव यदिष्टं तत्कथय ? ब्राह्मणेनोक्तं मद्गृहं चंपायां वर्तते, तेन तद्विषयग्राममेकमहमीहे. अथ करकंडुनृपश्चंपापूर्नाथस्य दधिवाहनभूपतेरस्मै द्विजाय त्वद्विषयग्राममेकं देहीत्याज्ञां प्राहिणोत्. आज्ञाहारिणं करकंडुनपस्य दूतं विस्मितचित्तः क्रुद्धश्चंपापतिर्दधिवाहनःप्राहारे स म्लेच्छबालः मृगतुल्यः करकंडुः सिंहतुल्येन मया सह विरुध्यते, परवस्त्वभिलाषभवस्य पातकस्य तव स्वामिनः शुद्धिं मत्खड्गतीर्थस्नानं दा
33
॥२६३॥
36 time
For Private And Personal Use Only