SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीकं ॥२६२॥ 190000000000000000000 स्मै दास्ये, स ब्राह्मणः करकंडूबालश्चेति द्वावपि विवदंती नगराधिकारिपुरो गतौ, नगराधिकारिभिभणितमहा वाल! तवायं वंशः किं करिष्यति? स प्राह ममायं राज्यं दास्यति, तदाधिकारिणः स्मित्वैवमूचुर्यदा तव राज्यं भवति तदा त्वयास्य ब्राह्मणस्यैको ग्रामो देयः, शिशुस्तद्वचोंगीकृत्य स्वगृहमगात्, स विप्रोऽन्यविप्रैः संभूय तं बालं हंतुमुपाक्रमत्, तं द्विजोपक्रमं ज्ञात्वा करकंट्टपिता जनंगमः स्वकलत्रपुत्रयुक्तस्तं देशं विहायानश्यत्. अथ सकुटुंबः स जनंगमः क्षितितलं क्रामन् कंचनपुरं जगाम, तत्रापुत्रनृपे मृते सति सचिवैरधिवासितस्तुरगः करकंडं दृष्ट्वा हेषारवं कृतवान्, तं सल्लक्षणं दृष्ट्वा नगरलोका जयजयारवं चक्रुः, अवादितान्यपि वाद्यानि स्वयं निनेदुः, स्वयं छत्रं शिरसि स्थितं, ततोऽमात्यैरपि नवीनानि वस्त्राणि परिधाप्य स करकंडुस्तमश्वमारोहितः, यावन्नगरलोकैः परमप्रमोदेन स पुरांतःप्रवेशितस्तावद्विप्रास्तं म्लेच्छोऽयमिति कृत्वा न मेनिरे, तदा क्रुद्धः स शिशुस्तं दंडं रत्नमिव करे जग्राह, अधिष्ठातृदेवैव्योंनीति घुष्टं य इमं राजानमवगणयिष्यति तस्य मूर्नासौ दंडः पतिष्यति, इत्युक्त्वा सुरास्तच्छिरसि 000000000000000000000 ॥२६ ॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy