________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोकं
॥२६
॥
00000000000000000000
अथ च देशसीम्नि तां नीत्वा स तापस एवं जगाद हे पुत्रि! अतःपरं हलाकृष्टा सावद्या धरा वर्तते, सा मुनिभिनोल्लंघनीया, ततोऽहं पश्चाद्वलामि, अयं मागों दंतपुरस्य वर्तते, तत्र दंतवक्त्रनामा राजा वर्तते, इतः सुसार्थेन सह त्वं पुरे गच्छेः. एवं निगद्य स तापसः स्वाश्रमं जगाम, राज्ञी पुरांतः साध्व्युपाश्रये जगाम, तत्र साध्व्या पृष्टे तया सकलोऽपि वृत्तांतः कथितः. साध्वी तस्या एवमुपदेशं ददौ-अस्मिन् बहुदुःखागारे संसारे मृषाभास एव सर्वेषां सोऽपि भवविस्तारो भवद्भिस्त्याज्यः. एवं साध्वीवचसा वैराग्यं गता सा तदैव दीक्षां जग्राह. स्वव्रतविघ्नभयात्सा संतमपि गर्भ न जगौ, कालांतरे तस्या उदरवृद्धौ साध्व्या पृष्टं किमेतत्तवेति. तयोक्तं मम पूर्वावस्थासंभवो गों वर्तते, मया तु व्रतविघ्नभयान्नोक्तः, ततो महत्तरा साध्वी तां साध्वीमुड्डाहनाभयेनैकांते संस्थापया| मास, काले सा पुत्रं प्रसूय रत्नकंबलेन संवृतं पितृनाममुद्रांकितं च कृत्वा श्मशाने द्राग्मुमोच, तदा श्मशानपतिर्जनंगमस्तं बालकं तथाविधमालोक्य गृहीत्वा चानपत्यायाः स्वपन्याः समार्पयत्, सा श्रमणी गुप्तचर्यया तं व्यतिकरं ज्ञात्वा महत्तराया अग्रेएवमाचख्यौ, मृत एव मया बालोजातस्ततो
&0000000000000000256
॥२६०॥
For Private And Personal Use Only