________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥२२॥
30000000000000000076
जंघोपरि पादमोचनं न विदधीत, च पुनः पक्षडिं जानुजंघोपरि वस्त्रवेष्टनात्मिकां योगपट्टाश्रयिकामथवा बाहुद्वयेनैव कायबंधात्मिकां गुरूणां पाश्वे न कुर्यात्, चशब्दः पुनरर्थे, पुनर्गुरूणामंतिके सन्मुख वा पादौ प्रसार्य न तिष्टेत. ॥ १९॥
॥मूलम् ॥-आयरिएहिं वाहित्तो । तुसिणीओ न कयाइवि॥ पसायपेही नियागट्ठी। उवचिट्टे गुरुणं सया ॥२०॥ व्याख्या-पुनः सुशिष्य आचार्यैर्गुरुभिर्व्याहृत आहूतः सन् कदाचिदपि तूष्णीको न भवेत्, अत्र कदापि शब्दात् ग्लानाद्यवस्थायामपि गुरुभिरामंत्रितः शक्ती सत्यां मोनं कृत्वा श्रुतमश्रुतं न कुर्यादित्यर्थः. कथंभूतः सुशिष्यः? प्रसादप्रेक्षी, प्रसाद गुरूणां स्नेहं प्रेक्षितुं शीलं यस्य सः प्रसादप्रेक्षी, यतः-अन्येषु शिष्येषु सत्सु गुरवो मां शब्दयंति, ततो मम महद्भाग्यमिति मनसि चिंतयति, पुनः कथंभूतः सुशिष्यः? नियागट्टी, मोक्षार्थी विनयस्य मोक्षकारणत्वात्. सुशिष्योऽनेन विधिना गुरुं सदोपतिष्टेत्सेवत. ॥ २० ॥ पुनर्विनयशिक्षां वदति
॥ मूलम् ॥-आलवंते लवंते वा । न निसीइज कयाइवि ॥ चइउण आसणं धीरो। जओ
90000000000000000
KIL॥२२॥
For Private And Personal Use Only