________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२१॥
అంతంతతకు ఆవలంతంలో
गुरोरपि ॥ इति कुमतिनिरासार्थ कदापि नैव शब्दस्य ग्रहणं. ॥ १७॥
॥मूलम् ॥-न पक्खओ न पुरओ। नेव किच्चाण पिठ्ठओ ॥ न जुंजे अरुणा ऊरूं । सयणे नो | पडिस्सुणे ॥१८॥ व्याख्वा-अथासनस्य विधिमाह-विनीतः साधुः पक्षतो न निषीदेत्पंक्तिसमावेशात्,
गुरुणा सह समानत्वं स्यात्. तस्माद्गुरोर्बाहुना सह बाहुं कृत्वा न तिष्टेत्. पुनर्गुरूणां पुरतोऽग्रतोऽपि न 2|| निषीदेत, वंदनां कुर्वतः पुरुषस्य गुरूणां मुखालोकनं न स्यात्, कृत्यानामाचार्याणां पृष्टतोऽपि न स्था- 1
तव्यं, गुरुशिष्ययोरुभयोरपि मुखादर्शने तथाविधरसवत्वाभावः स्यात्, न च पुनर्गुरूणामुरुणा जंघया सहोरं जंघां युजेत् संघट्टयेदत्यासंगादविनयः स्यात्. पुनः शिष्यो गुरूणां वचनं शयने शय्यायां शयानः सन्नासीनो वा न प्रतिशृणुयात्, गुरुभिरुक्ते सति शय्यायां स्थितेनैव शिष्येणैवं कुर्म इति न वक्तव्यं, किंतु गुरूणां समीपे आगत्य वचनं श्रोतव्यमित्यर्थः ॥ १८ ॥
॥ मूलम् ॥-नेव पल्लत्थियं कुज्जा । पक्खपिंडं च संजए ॥ पाए पसारिए वावि । न चिट्टे गुरुणंतिए ॥ १९ ॥ पुनरासनविधिमाह-व्याख्या-शिष्यो गुरोः समीपे पर्यस्तिकां नैव कुर्यात,
000000000000000000000
॥२१॥
For Private And Personal Use Only