________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
उत्तरा- कनामा वने तिष्टति, ततः श्रेणिकेन स्वयं तद्वने गत्वा महता बलेन गृहीत्वानीय स आलानस्तंभे | ॥२०॥
बद्धः, ऋषिभिस्तित्रागत्येति निर्भर्सितः, हे गजराज! क ते शौंडीयं गतं? प्राप्तं त्वयाऽस्मदविनयफलमिति श्रुत्वा स गजः प्रकामं रुष्टः स्तंभं भक्त्वा तेषां पृष्टे धावितः, ते सर्वे हतप्रहताः कृताः, प्राप्तोऽटव्यां, भग्नाः पुनरपि तेषामाश्रयाः, पुनः श्रेणिकः तद्गजग्रहणाय गतः, पूर्वभवसंगतदेवेन गजस्योक्तं, हे वत्स! परेभ्यो दमनात्स्वयं दमनं वरमिति तद्वचः श्रुत्वा स्वयमागत्यालानस्तंभमाश्रितः, यथा ह्यस्य स्वयं दमनाद्गुणो जातस्तथाऽन्येषामिति. ॥
॥ मूलम् ॥-पणिणीयं च बुद्धाणं । वाया अदुवकम्मुणा ॥ आवी वा जइवा रहस्से । नेव कुज्जा कयाइवि ॥ १७ ॥ व्याख्या-अथ पुनर्विनयशिष्यमाह-च पुनर्बुद्धानामाचार्याणां प्रत्यनीकं शत्रुभावं वाचा वचनेन कृत्वा न कुर्यात्, त्वं किं जानासीत्यादिरूपेण निर्भर्त्सनां न कुर्यादथवा कर्मणा क्रियया
संस्तरकोल्लंघनेन चरणादिना संघटनेनाविनयं न कुर्यात्तदपि आवी इति लोकसमक्षं यदि वा रह18 स्येकांते कदापि सुशिष्यो गुरुभिः सह शत्रुभावं न कुर्यादित्यर्थः. शत्रोरपि गुणा ग्राह्या । दोषा वाच्या
3000000000000000000
00000000000000000000
For Private And Personal Use Only