________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥२५६॥
00000000000000000000
तत्थ ठविज भिक्खू अप्पाणं ॥ १९ ॥ व्याख्या-अनगारः साधुः स्त्रीषु न गृध्येन्न गृद्धिं कुर्यात, अनगारः स्त्रियं विशेषेण प्रजह्यात्परित्यजेत्, पुनर्भिक्षुर्धर्मं ब्रह्मचर्यादिरूपं पेशलं मनोज्ञं ज्ञात्वा तत्र आत्मानं स्थापयेत्. ॥ १९ ॥
॥ मूलम् ॥-इइ एस धम्मे अक्खाए । कविलेणं विसुद्धपन्नेणं ॥ तरिहिंति जे उ काहिंति ।। तेहिं आराहिया दुवे लोगित्ति बेमि ॥ २०॥ व्याख्या-इत्यमुना प्रकारेणैष धर्मः कपिलेनाख्यातः कथितः, कथंभृतेन कपिलेन? विशुद्धप्रज्ञेन केवलज्ञानयुक्तेन, ये पुरुषाः कपिलकेवलिनोक्तं धर्म करिप्यति ते पुरुषाः संसारं तरिष्यंति, पुनस्तैः पुरुषैवपि लोकावाराधितो सफलीकृतावित्यर्थः ॥ २०॥ इत्यादिदोधकान् कपिलोक्तान् श्रुत्वा तत्र केचिच्चोराः प्रथमेनैव दोधकेन प्रतिबुद्धाः, केचिद् द्विती| येन. एवं पंचशतचौरा अपि प्रतिबुद्धाः प्रवजिताश्च. ॥ इति कापिलीयमध्ययनमष्टमं संपूर्णम् ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां कापिलिकाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ।।
000000000000000000000
॥२५६॥
For Private And Personal Use Only