________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥२५३॥
0000000000000000000000
॥ मूलम् ॥-इह जीवियं अनियमित्ता। पप्भट्ठा ससमाहि जोएहि ॥ ते कामभोगरसगिद्धा । उबति आसुरे काए ॥ १४ ॥ व्याख्या-ते कामभोगरसगृद्धा आसुरे काये उत्पद्यते, किं कृत्वा? इहास्मिन् संसारे जीवितमात्मानं तपोविधानादिना, ' अनियमित्ता' इत्यनियंत्र्यावशीकृत्य, ते के? ये समाधियोगेभ्यः प्रभृष्टाः, समाधिना स्थैर्येण योगा मनोवाकायानामेकीभावाः समाधियोगास्तेभ्यः प्रभ्रष्टाः, प्रकर्षेणाधः पतिताः. पुनः कीदृशास्ते ? कामभोगरसग्रद्वा विवयसेवनस्वाद लोला आसुरे कायेऽसुरकुमारयोनी, अत्र 'अनियमित्ता' इत्युक्तेन किंचिदनुष्शनं कृत्वाऽसुरकु|मारत्वेनोत्पयंते, नितरामतिशयेन यमित्वा नियम्य, न नियम्यानियम्योत्कृष्टं तपोऽकृत्वेत्यर्थः ॥१४॥
॥मूलम् ॥-ततोवि य उवट्टित्ता । संसारं बहु अणुपरियति ॥ बहुकम्मलेवलित्ताणं ।। बोही होइ सुदुल्लहा तेसिं ॥ १५॥ व्याख्या-ततोऽपि च ततोऽसुरनिकायादुध्धृत्य निःसृत्य बहुं संसारमनुपर्यटंति बहुलं संसारं भ्रमंति, पुनस्तेषां संसारे भ्रमतां बोधिः सम्यक्त्वलब्धिः सुदुर्लभा भवति, कथंभूतानां तेषां ? बहुकर्मलेपलिप्तानां प्रचुरकर्मपंकखरंटितानां. ॥१५॥
OROGems0000000000000६
ततोऽसुरनिकायबलब्धिः सुदुलेभा |॥२५३ ।।
For Private And Personal Use Only