________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
।। २५२ ।।
909999
www.kobatirth.org
पुनः शरीरधारणार्थं मंथं बदरचूर्णं निषेवेत, बदरचूर्णस्यापि रूक्षतया प्रांतत्वं, अत्र यापनार्थमित्युक्तं तेनायमर्थो ज्ञेयः, यदि त्वतिपातादिना तद्देहयापना नैव स्यात्ततो न निषेवेत, अपि स्थविरो ग्लानश्च येनाहारेण शरीरे सुखं स्यात्तदाहारं सेवेत, अयमथों ज्ञेयः ॥ १२ ॥
॥ मूलम् ॥-जे लक्खणं च सुविणं च । अंगविजं च जे पओजंति ॥ न हु ते समणा वुच्चति । एवं आयरिएहिं अक्खायं ॥ १३ ॥ व्याख्या - हु इति निश्चयेन ते श्रमणान उच्यंते, आचार्यैरेवमाख्यातं, ते के? ये लक्षणं सामुद्रिकशास्त्रोक्तं द्वात्रिंशत्प्रमाणं माषतिलकादिकं च च पुनः स्वप्नं स्वप्नशास्त्रं गजारोहणाद्भवेद्राज्यं । श्रीप्रातिः श्रीफलागमात् ॥ पुत्राप्तिः फलिताम्रस्य । सौभाग्यं माल्यदर्शनात् ॥ १॥ इत्यादि. अंगविद्यामंगस्फुरणफलशास्त्रं यथा— शिरसः स्फुरणे राज्यं । हृदयस्फुरणे सुखं ॥ बाह्वोश्च मित्रमिलनं । जंघयोर्भोगसंगमः ॥ १ ॥ इत्यादि सर्व मिथ्याश्रुतं साधुना न प्रयोज्यमित्यर्थः, यदाह धर्मदासगणिः – जोइनिमित्त अक्खर कोउयआएसम्यकम्मेहिं ॥ करणाणुमोयणिज्जे । साहुस्स तव - क्खओ होइ ॥ १ ॥ १३ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
७ ।। २५२ ॥