________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥२४८॥
300000000000000000006
| विषये या बुद्धिर्हितनिःश्रेयसबुद्धिस्तस्याः सकाशाद्विशेषेण पर्यस्तः पराङ्मुखो हितनिःश्रेयसबुद्धिविपर्यस्तः स्वर्गापवर्गसुखाभ्रष्ट इत्यर्थः ॥ ५॥
॥ मूलम् ॥-दुपरिच्चया इमे कामा। नो सुजहा अधीरपुरिसेहिं ॥ अह संति सुव्वया साहु । जे तरंति अतरं वणियव ॥६॥ व्याख्या-इमे प्रसिद्धाः कामा अधोरपुरुषैर्न सुजहाः, न सुखेन हातुं योग्या इत्यर्थः, मिष्टान्नादिभोजनवत्. कीदृशा इमे कामाः? अत एव दुःपरित्यजाः. अथ केचित्सुव्रताः साधवः संति, येऽतरं तरीतुमशक्यं संसारं तरंति. के इव ? वणिज इव, यथा वणिजः सामुद्रिका व्यापारिणोऽतरं महासमुद्रं प्रवहणैस्तरंति, अत्र वा शब्दो इवाथें. ॥ ६॥
॥ मूलम् ॥-समणा मु एगे वयमाणा । पाणवहं मिया अयाणंता ॥ मंदा निरयं गच्छति । बाला पावियाहि दिट्टीहिं ॥ ७॥ व्याख्या-एके केचित्कुतीर्थ्या मिथ्यात्विनः पापिकाभिः पापहेतुकाभिदृष्टिभिर्बुद्धिभिः प्राणवधमधर्ममजानंतो नरकं गच्छंति, कथंभृतास्ते मृगाः? अविवेकिनः, पुनः कीदृशास्ते? मंदा जडाः, यथा केचिद्रोगग्रस्ताभिदृष्टिभिः सम्यग्मार्गमजानंतः कस्मिंश्चिद् दुःख
॥२४८॥
For Private And Personal Use Only