________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २४७ ॥
0000
99999930
www.kobatirth.org
नई ताई ॥ ४ ॥ व्याख्या - भिक्षुः साधुस्तथाविधं पूर्वोक्तं कर्मबंधहेतुं सर्वग्रंथं बाह्याभ्यंतरभेदेन द्विविधं परिग्रहं विशेषेण प्रजह्यात्परित्यजेत् च पुनर्भिक्षुः कलहं काधं, चकारान्मानमायालोभादीन् विप्रजह्यात् पुनः साधुः सर्वेषु कामजातेष्विंद्रियविषयेषु न लिप्यते नासक्तो भवेत्, किं कुर्वन् ? पश्यन् विषयविपाकं चिंतयन्नित्यर्थः पुनः कीदृशः साधुः ? ताई त्रायी सर्व जोवानामभयदानदायीत्यर्थः ४
॥ मूलम् ॥ - भोगामिसदोसविसन्ने । हियनिस्सेय सबुद्धिबुच्चत्थे ॥ बाले य मंदिए मूढे । बज्झइ मच्छियाव खेलंमि ॥ ५ ॥ व्याख्या - एतादृशो बालोऽज्ञानी कर्मणा बध्यते, कर्मणा बद्धश्च संसारान्निर्गन्तुं न शक्नोति, संसार एव सीदति, कस्मिन् क इव ? खेले श्लेष्मणि मक्षिकाजंतुवि, कथंभूतो वालो जनः ? मंदो धर्मक्रियायामलसः, पुनः कीदृशः ? मूढो मोहव्याकुलमनाः, पुनः कीदृश: ? विषयामिषदोषविषण्णः, विषया एव गृद्धिहेतुत्वादामिषं विषयामिषं तदेव दोषो जीवस्य दूषणकरणत्वाद्विषयामिषदोषस्तत्र विशेषेण सन्नो निमग्नो विषयामिषदोषविषण्णः, पुनः कीदृशः ? हितनिःश्रेयसबुद्धिपर्यस्तः, हितमात्मसुखं, निःश्रेयसो मोक्षः, हितं च निःश्रेयसश्च हितनिःश्रेयसौ, तयो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ २४७ ॥