________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २४३ ॥
90006046996999999999
www.kobatirth.org
तस्य कारयितुं न शक्यते.
ततोऽनेन शालिभद्रनामा तत्रत्यो व्यवहारी प्रार्थितो यथास्य त्वया निरंतरं भोज्यं देयं, त्वत्प्रसादान्निश्चितोऽसौ पठिष्यति, तेनापि तत्प्रतिपन्नं, कपिलः शालिभद्रगृहे प्रत्यहं भुंक्ते, इंद्रदत्तगुरुसमीपे चाध्येति, शालिभद्रगृहे चैका दासी वर्तते, दैवयोगात्तस्यामसौ रक्तोऽभृत्. अन्यदा सा गर्भिणी जाता, सा कपिलं प्रत्याहाहं तव पत्नी जाता, ममोदरे त्वद्गर्भो जातोऽतस्त्वया मे भरणपोषणादि कार्य. कपिलस्तद्वचः श्रवणाद्भृशं खिन्नः परमामधृतिं प्राप, न च तस्यां रात्रौ निद्रां प्राप पुनस्तया भणितं स्वामिन्! खेदं मा कु र्याः ? मदुक्तमेकमुपायं शृणु ? अत्र धननामा श्रेष्ठी वर्तते, तस्य यः प्रथमं प्रभाते गत्वा वर्धापयति तस्य स सुवर्णमापद्वयं ददाति, ततस्त्वमय प्रभाते गत्वा प्रथमं वर्धापय ? यथा सुवर्णमासद्वयं प्राप्नुयाः, कपिलस्तस्या वचः श्रुत्वा मध्यरात्रावुत्थितः, तस्य धाम्न्यपरः कश्चिन्मा प्रथमं यायादित्यौत्सुक्येन गच्छन् कपिलः पुरारक्षकैर्गृहीतः, चौरधिया बद्धः, प्रभाते पुरस्वामिनः पुरो नीतः, पुरखामिना पृष्टं कस्त्वं ? किमर्थमर्धरात्रौ निर्गतः ? तेन सकलस्वरूपं प्रकटीकृतं, सत्यवादित्वात्तस्य तुष्टो राजा प्राह
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9006999466666666666666
सटीक
॥ २४३ ॥