________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२४४॥
Do00@@@@@5000000000
यत्वं मार्गयसि तदहं ददामि, स प्राह विभृश्य मार्गयामि, राजा प्राह याह्यशोकवनिकायां? विचा| रय स्वेष्ट ? कपिलस्तत्र गत इति चिंतयितुमारब्धवान्, चेदहं सुवर्णमासद्वयं मार्गयामि, तदा तस्याः दास्याः शाटिकामानं जायते, न त्वाभरणानि, ततः सहस्रं मार्गयामि, तदापि तस्या आभरणानि न जायंते, ततोऽहं लक्षं मार्गयामि तदापि मम जात्यतुरंगमोत्तमगजेंद्रप्रवररथादिसामग्री न जायते, | ततः कोटि मार्गयामीति चिंतयन्नेव स्वयं संवेगमागतः, सुवर्णमासद्वयार्थ निर्गतस्यापि मम कोट्यापि तुष्टिर्न जातेति धिगिमा तृष्णामिति विचार्य स्वमस्तके लोचं कृतवान्. शासनदेवतया तस्य रजोहरणादिलिंगमर्पितं, कपिलो द्रव्यभावाभ्यां यतिभूत्वा राज्ञः पुरः समागतः, राज्ञा भणितं त्वया विचा| रितं किं ? स आह-जहा लाहो तहा लोहो । लाहा लोहो विवढई ॥ दोमासकणयकजं । कोडिएवि न निट्टियं ॥१॥ इति विचार्याहं त्यक्ततृष्णः संयमी जातः, राज्ञोक्तं कोटिमपि तवाहं ददामि, तेनोक्तं सर्वोऽपि परिग्रहो मया व्युत्सृष्टः, न मे कोट्यापि कार्यमित्युक्त्वा सश्रमणस्ततो विहृतः षण्मा| सान् यावच्छद्मस्थ एवासीत, पश्चात्केवली जातः. इतश्च राजगृहनगरांतरालमागें बलभद्रप्रमुखा- 15
1000000000000000000000
॥२४४॥
For Private And Personal Use Only