________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २४० ॥
99969966
www.kobatirth.org
पुनर्यत्र यशो भवति, पराक्रमादुत्पन्नधर्मविशेषरूपं यश उच्यते, पुनर्यत्र वर्णो गांभीर्यादिगुणैर्वर्णनं, वर्णः श्लाघा, अथवा वर्णशब्देन गौरवादिगुणो वा, पुनर्यत्रायुः संपूर्ण प्रचुरं च भवति, पुनर्यत्र सुखं भवति, एतेषां सर्वेषामनुत्तरपदेन विशेषणं कर्तव्यं, अनुत्तरं सर्वोत्कृष्टं देवभवापेक्षयेतद्वक्तव्यम्. २७ ॥ मूलम् ॥ - बालस्स पस्स बोलत्तं । अहम्मं पडिवजिया । चिच्चा धम्मं अहम्मिट्टे । नरए उववज्जइ ॥ २८ ॥ व्याख्या - हे शिष्य ! तं बालस्य हिताहितज्ञानरहितस्य बालत्वं मूर्खत्वं पश्य ? स अधर्मिष्टो वालो धर्मं त्यक्त्वा अधर्मं प्रतिपद्य नरके उत्पद्यते ॥ २८ ॥
॥ मूलम् ॥ धीरस्स पस्स धीरतं । सवधम्प्राणुवत्तिणो ॥ चिच्चा अधम्मं धम्मिट्ठे । देवेसु उववज्जई ॥ २९ ॥ व्याख्या -- हे शिष्य ! धीरस्य पंडितस्य धीरत्वं पश्य ? त्वं विचारय? धिया राजत इधर, धियं बुद्धिं राति ददातीति या धीरः, तस्य कीदृशस्य धीरस्य ? सर्वधर्मानुवर्तिनः सर्वे ये क्षांत्यादयो धर्मास्ताननुवर्तितुमनुकूलत्वेन चरितुं शीलं यस्य स सर्वधर्मानुवर्ती, तस्य क्षांत्यादिदशविधधर्मधारकस्य, कीदृशं धीरत्वं ? तदाह-स धर्मिष्टो धीरोऽधर्मं त्यक्त्वा देवेषूत्पद्यते ॥ २९ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
3005000
सटीकं
॥ २४० ॥