________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥२३९॥
000000000000000000000
यतो लाभं ३, हारणं ४, समुद्रजलदृष्टांतं च ५ ज्ञात्वेह नरभवे कश्चिद् गुरुकर्मा जीवस्तस्य कामाद्भोगसुखादनिवृत्तस्य, आत्माथों मोक्षोऽपराध्यति नश्यति विषयिणो जीवस्य मोक्षो न भवतीत्यर्थः. अत्र हेतुमाह-जं इति यस्मात्कारणात्स गुरुकर्मा जीवो नैयायिक मार्ग मोक्षमार्ग श्रुत्वा भूयो वारंवारं परिभ्रश्यति, संसारगर्तायां पततीत्यर्थः ॥ २५॥
॥ मूलम् ॥-इह कामनियदृस्स । अत्तठे नावरज्झई ॥ पूइदेहनिरोहेण । भवे देवित्ति मे सुयं ॥ २६ ॥ व्याख्या-हे शिष्य ! मे मयेति श्रुतं, इतीति कि? इहास्मिन्नरभवे कामान्निवृत्तस्य जीवस्य लघुकर्मण आत्माथों मोक्षो न नश्यति, स च पुमान् पूतिदेहनिरोधेनौदारिकदेहत्यागेन शतनपतनविध्वंसनधर्मात्मकपिंडाभावेन देवो भवेद्देवशरीरं प्राप्नुयात्. ॥ २६ ॥
॥ मूलम् ॥–इट्ठी जुइ जसो वन्नो । आउयं सुहमणुत्तरं ॥ भुजो जत्थ मणुस्सेसु । तत्थ से उववजइ ॥ २७॥ व्याख्या–स निर्विषयी कामान्निवृत्तो जीवस्तत्र मनुष्येषु भूयो वारंवारमुत्पद्यते, तत्र कुत्र? यत्र मनुष्येषु ऋद्धिः स्वर्णरूप्यरत्नमाणिक्यादिका भवंति तत्र, द्युतिदेहस्य कांतिर्भवति,
00000000000000000000
॥२३९
For Private And Personal Use Only