________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥॥ २३५ ॥
G&&
www.kobatirth.org
॥ मूलम् ॥
माणुसतं भवे मूलं । लाभो देवगई भवे ॥ मूलच्छेएण जीवाणं । नरगतिरिक्खत्तणं धुवं ॥ १६ ॥ व्याख्या - मनुष्यो मृत्वा मनुष्य एव भवेत्, तदा मनुष्यत्वं मूलद्रव्यसदृशं ज्ञेयं, यो मनुष्यभवाच्च्युत्वा देवो भवेत्तदा देवत्वं लाभतुल्यं ज्ञेयं, यत्पुनर्मनुष्याणां नरकतिर्यक्त्व प्राप्तिर्भवेत्तदा मूलच्छेदेन ध्रुवं निश्चितं दुर्भाग्यत्वं ज्ञेयं ॥ १६ ॥
॥ मूलम् ॥ दुहओ गई बालस्स । आवईवहमूलिया ॥ देवत्तमाणुसत्तं च । जंजिए लोलया सढे ॥ १७ ॥ व्याख्या - बालस्य मूर्खस्य द्विधा गतिर्भवेत्, कथंभूता गतिः ? ' आवईवहमूलिया' आपद्वधमूलिका, आपदो विपदो वधस्ताडनादिः, आपदश्च वधश्चापद्वधौ तौ मूलं यस्याः सापद्वधमूलिका. जं इति यस्मात्कारणात्स बालो मूर्खो देवत्वं मानुषत्वं च हारितः कीदृशः सन् ? लोलया लांपटथेन जितः, पुनः कीदृशः ? शठो धूर्तः ॥ १७ ॥
॥ मूलम् ॥ - तओ जिए सया होई । दुब्बिहं दुग्गए गए ॥ दुल्लहा तस्स उम्मग्गा । अद्धाए सुचिरादवि ॥ १८ ॥ व्याख्या - ततो देवत्वमनुष्य त्वजयाद्देवगतिमनुष्यगतिहारणात्स मूर्खः सकृद्वारं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
00030999999999999999
सटीक
॥ २३५॥