________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२३३॥
00000000000000000000
॥ मूलम् ॥-एवं माणुस्तगा कामा। देवकामाण अंतिए ॥ सहस्सगुणिआ भुजो । आउं कामाय दिविया ॥ १२ ॥ व्याख्या-एवममुना प्रकारेण काकिण्यानदृष्टांतेन काकिण्याम्रसदृशा मानुष्यकाः कामा देवसुखानामंतिके देवसुखानां समीपे ज्ञेयाः. इह च दिव्यकामानामतिभ्यस्त्वेन कार्षापणसहस्रराज्यतुल्यता सूचिता. मनुष्यकामानामग्रे भृयो वारंवारं सहस्रगुणिताः सहस्रेस्ताडिताः दिविया' इति दिव्यका देवसंबंधिनः कामाः शब्दादयो ज्ञेयाः, आयुर्जीवितमपि देवसंबंधिसहस्रगुणितं ज्ञेयं. | दिव्यकाः कामाश्च यथा मनुष्यकामानामग्रे वारंवारं सहस्रगुणितास्तथायुरपि मनुष्यायुदेंवायुपोरंतरं ज्ञेयं. ॥ १२ ॥
॥ मूलम् ।।-अणेगवासा नउया । जा सा पन्नवओ ठीई ॥जाणि जीयंति दुम्मेहा । ऊणे वाससया उए ॥१३॥ व्याख्या-प्रज्ञावतः क्रियासहितज्ञानयुक्तस्य या स्थितिर्विद्यते, सा भवतामस्माकं च प्रतीतास्ति, तत्रस्थिती यान्यनेकवर्षनयुतानि, अनेकान्यसंख्येयानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, अर्थाद्यानि पत्योपमसागराणि भवंति, अत्रप्राकृतत्वादनेकवर्षनयुताइति पुल्लिंगनिर्देशः कृतः.
64 bias starởẼss sẽ về
12॥२३३॥
For Private And Personal Use Only